________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
873
878 Beginning :
यश्शिवो नामरुपाभ्यां या देवी सर्वमङ्गला । तयोस्संस्मरणात्पुंसां सर्वतो जयमङ्गलम् ॥ यो वर्णैरिज्यते नित्यः कर्मभिश्चोदितैर्निजैः । तेभ्योऽपवर्गदो यश्च तं नमाम्यद्वयं हरिम् ।। आपस्तम्बमुनि वन्दे मन्दधीहितकाम्यया । योऽनुष्ठेयपदार्थानां क्रमकल्पमकल्पयत् ।। यत्कृतं वेदवद्भाष्यमाद्रियन्ते विपश्चितः । स कपर्दी चिरञ्जीयाद्वेदवेदार्थतत्त्ववित् ।। सुदर्शनार्यः कुरुते गृह्यतात्पर्यदर्शनम् ।
केवलं वैदिकश्रद्धाप्रेरितो मन्दधीरपि । अथ कर्माण्याचाराद्यानि गृह्यन्ते । अथशब्दा(ब्द) आनन्तर्यार्थः । तदर्थ पूर्ववृत्तमुच्यते । इह हि यज्ञा एकविंशतिभेदाः.
एते च नित्याः नियतप्रदोषादिकालीनजीवननिमित्तका इत्यर्थः । कुतो नित्याः ? जायमानो वै ब्राह्मणस्त्रिभिऋणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति । अत्र यज्ञेनेत्येकवचनं यज्ञं व्याख्यास्याम इतिवत् जात्यभिप्रायं मन्वानस्य भगवतो वसिष्ठस्य नैयमिकं धेतहणसंस्तवमिति वचनेनैषामवश्यानुष्ठाना म]प(व)गमात् ।
End:
दधाति दधाति(ती)ति द्विरुक्तिः प्रश्नपरिसमाप्तिसूचनार्था ।
इत्थं सुदर्शनार्येण गृह्यतात्पर्यदर्शनम् । कृतं भाषा(प्या)नुसारेण यथामति यथाश्रुति ।
For Private and Personal Use Only