________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
858
A
nima...
A DESCRIPTIVE CATALOGUE OF
अपानपाणिपादस्य शोधनं शुद्धिकारणम् । सर्वेषामपि वर्णानामिदमादौ प्रचक्षते ।। पादं प्रक्षालयेद्विप्रः शौच एव हि दक्षिणम् । पश्चात्सव्यमथान्यत्र सव्यमादौ सदक्षिणम् ।। सुनातः कृतसन्ध्यस्तु शुचिर्भूत्वा समाहितः । गृह्योक्तञ्चारभेत्कर्म नित्यनैमित्तिकञ्च हि ।। सन्ध्याहीनो न तत्कुर्यात् प्राप्तञ्चेत्सन्ध्ययोईयोः । शुभं वाप्यशुभं कर्म कृतञ्चन्निष्फलं भवेत् ।। कृतसन्ध्योऽधिकारी स्यात् माङ्गल्ये मृतकेऽपि च । सन्ध्ययोरुभयोश्चैव नान्यथा कर्तुमर्हति ॥ पुत्रे जाते पिता कुर्याज्जातकर्म विधानतः । न चेत्स्यात्सन्निधौ कर्ता कारयेन्नामकर्मणि ।। नान्दीश्राद्धं पिता कुर्यात् खस्तिवाचनपूर्वकम् । आदौ चैव शुभार्थी तु सर्वसंस्कारकर्मणाम् ॥ बहूनां क्रियमाणानां संस्कार्यस्य च कर्मणाम् । नान्दीश्राद्धं भवेदेवं तत्तत्कर्म भवेत्पृथक् ।। ब्रह्महत्यादिकं पापं ब्राह्मणः कुरुते यदि । स दोषघातनिरतः पतितः परिकीर्तितः ।। प्रमादाच्चद्भवेदेकं पृथक् देहं द्विजस्य तु । तच्चैवाप्सु क्षिपेदङ्गकरपादाङ्गलादिकम् ॥ एवंभूतस्य विप्रस्य मरणञ्जायते यदि । कुर्यात्तस्य सुतः कर्म प्रायश्चित्तपुरस्सरम् ।। तारयेद्यः पितॄन् पापात्स एव तरति स्वयम् । इत्येवऋथितो धर्मश्शाकलेन महर्षिणा ।।
End:
For Private and Personal Use Only