________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
607
गणपतिमभिवन्द्यावद्यजालामयनं खरपदमितिवर्णोद्बोधनः(न)शीलनेन । क्षितिसुरगणहेतोरेतदारण्याशिक्षा
मृतमिह नवशिक्षावारिधेरुद्धरामि ॥ अवद्यजालामयन्नं व्याधिवत् ग्रन्धरचनाप्रतिबन्धकसमूहविनाशकमिति गणपतिविशेषणम् । शीलनेन सम्यगभ्यसनेन खरपदमितिवर्णोद्बोधनमित्यारण्यशिक्षामृतविशेषणम् । आरण्यकप्रथमप्रश्ने उदात्तादिखरविषयेऽध्येतृणां बहुधा विप्रतिपत्तिसत्त्वात् तन्निर्णयार्थ प्रतिजानीते ।
End:
इत्थं न्यरूपि सकलं स्वरवर्णजालं खाध्यायपञ्चसु मुदे निगमेत(मोत्त)राणाम् । आरण्यके यदिह किंचन न न्यरूपि
तद्बुद्धिमद्भिरखिलं स्वयमूहनीयम् ।। ननु सकलं स्वरवर्णजालं निरूपितमित्यसङ्गतं स्वाध्यायब्राह्मणे अम्भस्य पारे इति प्रश्ने च स्थितानां श्रुतिवाक्यानामुदाहृतत्वेऽपि प्रथमप्रश्नशिक्षामिति प्रश्ने ब्रह्मवल्यां भृगुवयां स्थितानां श्रुतिवाक्यानामनुदाहृतत्वात् । न चादिमकपदे ड्युच्चमित्यादिना लक्षणस्याभिनिहितत्वे लक्षणजालं सर्व निरूपितप्रायमेव यथा गोस्सास्नादिमत्त्वे लक्षणेऽभिनिहिते तल्लक्षणाक्रान्ता सर्वापि व्यक्तिर्गौरािते निरूपितप्रायेति वाच्यम् ; वैषम्यात्तत्र सानादिमत्त्वलक्षणस्य सिद्धत्वेन तहि(शि)ष्टा सर्वापि व्यक्तिर्गौरिति सुज्ञानम् ; प्रकृते तु उदात्तादिस्वराणां पुरुषोच्चारणाधीनत्वेन अन्यथाप्युच्चारणसम्भवेन असिद्धत्वात् तथा च लक्ष्ये उदाहृत इदमिदं श्रुतिवाक्यमिति विज्ञाय भवदुक्तलक्षणज्ञो भवति । अतः त्वं वै पूर्व समभूः । त्वमिदं पूर्वः कुरुष्वेति । पुर५ हिरण्मयीमित्यादौ उदातपूर्वस्तैरोव्यञ्जन इत्यर्थः । नोदात्तस्वरितपर इति निषेधाप्रवृत्तिरत्र विशेषो द्रष्टव्यः ।
80
For Private and Personal Use Only