________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
792
A DESCRIPTIVE CATALOGUE OF
This is a work with commentary in 2 centums of verses treating of the expiatory rites connected with Srauta sacrifices as given in Apastamba-Srautasūtra. The commentary is by Vönkatēśa of Vatsa-Gotra, Beginning :
आपस्तम्बमुनि नत्वा प्रायश्चित्तशतद्वयीम् ।
मन्दानां सुखबोधाय व्याकरिष्ये यथामति ॥ तत्र तावत् प्रारिप्सितस्य ग्रन्थस्य विषयप्रयोजनादिकं दर्शयति--
नैमित्तिकेषु श्रुतिलक्षणेषु सूत्रे यदस्पष्टमिवाल्पबुद्धेः ।
तद्भाप्यवृत्त्याद्यनुसृत्य सम्यक् स्वरूपबोधाय विविच्यते तत् ॥ हविर्यज्ञप्रायश्चित्तेषु सोमप्रायश्चित्तेपु च मन्दबुद्धीनां सूत्रे यदम्पष्टमिव प्रतीयते तदेव प्रायश्चित्त तेषां स्पष्टावबोधार्थ स्वरूपतो विषयतश्च विविच्य प्रदर्श्यते । यद्यपि सूत्रेऽस्पष्टं व्याख्याने स्पष्टं भवति तथापि भाप्ये वृत्तौ प्रयोगवृत्तौ च व्याकीर्णतया दुर्जेयस्य प्रायश्चित्तस्य भाप्याद्यनुसृत्य क्रमेणैकत्र समू(मु)ह्य प्रतिपादने मन्दबुद्धीनां सुखावबोधो भवतीति तदर्थोऽयमारम्भ इत्यर्थः । (।) इदानीं श्रुतिलक्षणं प्रायश्चित्तमित्यादिपरिभाषासूत्रार्थ दर्शयति
श्रुत्युक्तकर्मण्यतेऽन्यथा वा तस्य चित्तं श्रुतिलक्षणं स्यात् । पुंसोऽपराधे स्मृतिलक्षणञ्च निमित्तसंख्यादि विवक्ष्यते नः ॥
श्रुत्या यत् कर्मावश्यकतया यथा विधीयते तस्मिन्नननुष्ठिते अन्यथा वानुष्ठिते सति . . . . श्रुतिविहितमेव प्रायश्चित्तं कर्तव्यं न पुनस्स्मृतिलक्षणमपि श्रुतिप्रत्यये हि कर्मणि श्रेषे सति तत्समाधानेनापि श्रुतिप्रत्ययेनैव भवितव्यम् ।
इति श्रीवत्सकुलभूषणश्रीवेङ्कटेशवाजपेययाजिनः कृतौ प्रायश्चित्तशतद्वयीव्याख्याने प्रायश्चित्तनिरूपणं नाम प्रथमं प्रकरणम् ।
For Private and Personal Use Only