________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
790
A DESCRIPTIVE CATALOGUE OF Begins on fol. la. The codex contains also Kaparlikārikā fol. 22a.
Refer to pages 4, 5, 147 and 148 of M. Soshagiri Sastri's Report for the year 1893–94, No. 2, for comments and extracts.
___No. 1075. आपस्तम्बपरिभाषासूत्रव्याख्या. • ĀPASTAMBAPARIBHĀSĀSUTRAVYĀKHYĀ. Pages, 50. Lines, 7 on a page.
Begins on fol. 170a of the MS. described under No. 23. Complete.
The Paribhăşā prakarana is a portion of the 24th Praśna of the Āpastambakalpasūtra, the other parts dealing with Pravara and Hautraka. The commentary is by Haradattācārya. Beginning:
यज्ञं व्याख्यास्याम इति । अत्रायमारम्भहोमः । नित्ययज्ञक्रिया(वा)न् पुरुषः श्रियाभिव्यनक्ति। तस्यैवाक्रिया प्रत्यवायं संपादयति । ऋणकृते अक्रियायाश्च प्रायश्चित्तविधानात् । ये चान्ये आश्रमा ऊर्द्धरेतसां ते च नित्यश्रुतिविरोधा[ना]दनधिकृतार्थपरत्वादिविषयतया व्याख्येयाः । एवमनुष्ठेयो यज्ञं(ज्ञः) श्रुत्यर्थस्यासर्वज्ञागम्यत्वेन शाखान्तरविध्युपसंहाराशक्तेश्च व्याख्यानतोऽनुष्ठातुं न शक्यत इति करुणाविष्टहृदयतया धर्मकथनाय गतश्रेयोऽर्थितया च यज्ञं व्याचिकीर्षन्नाचायः प्रतिजानीते यज्ञं व्याख्यास्याम इति । यज्ञं वि आख्यास्यामः देवतां प्रति स्वद्रव्यस्योत्सर्जनं यजः, यज्ञ इत्येकविंशतिसंस्थो यजजात्यभिमानेन व्यपदिश्यते । सप्त सोमसंस्थाः, सप्त हविर्यज्ञसंस्थाः, सप्त पाकयज्ञसंस्था इति । अग्निष्टोमोऽत्यमिष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमसंस्थाः । अग्निहोत्रं दर्शपूर्णमासावाग्रयणं पिण्डपितृयज्ञश्चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्थाः । औपासनहोमो वैश्वदेवं पार्वणमष्टका मासिश्राद्धं सर्पबलिरीशानबलिरिति सप्त पाकयज्ञ.
For Private and Personal Use Only