SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 591 A DESCRIPTIVE CATALOGUE OF मुनिमानसमन्थानमथितागमसागरात् । उदिताय नमो भूयादमृताय मुरारये ॥ वेदवेदान्तविदां मुनीनां मानसमेव मन्थानः तेन मथितात् चिन्तितात् आगमो वेदः स एव सागरः तस्मादुदितः आविर्भूतः शेषं व्यक्तम् ।। गुणत्रयविहीनाय जगत्रयविधायिने । श्रुतित्रयदृशे शश्चत् पुरत्रयमथे नमः ॥ गुणानां त्रयं गुणत्रयम् । एवमुत्तरेषामपि त्रयाणां विग्रहः सत्त्वरजस्तमोगुणरहितः अणिमादिगुणान्वित इत्यर्थः । सृष्टिस्थितिलयरूपेण पृथिव्यादि लोकत्रयं विदधातीति लोकत्रयविधायी । वेदत्रयञ्चक्षुर्यस्यासौ श्रुतित्रयदृक् । पुरत्रयमथे तेषामसुराणामित्यनुवाके रुद्र इत्यब्रुवन्निति रुद्रशब्देन विवाक्षतपुरुष इति तस्मा अयन्नमस्कारः । नमस्कृत्य विनेतारं विघ्नानामनुशिष्यते । अनिङ्गयामङ्गयसादृश्यात् यत्सन्देहास्पदं पदम् ॥ विघ्नानां विनेता विनायकः तञ्च नमस्कृत्य वक्ष्यमाणविषयन्दर्शयति किमिति अनिङ्गयमनुशिष्यत इति । अनियमित्यविभागपदमुच्यते न तु समासपदं सत्यपि समासत्वेऽपि अञ्जसा न युज्यते प्रकृतिपरत्वोपपत्तेः अन्यथा त्वनुदात्तं पदमेकवर्जितमिति तावदन्त्यगतः पदा. नामेकाक्षरवर्जमनुदात्तता विहितेति अनेकोदात्तत्वं न भवति । आप च अद्भयो दिग्म्य इत्येवमादीनामसमासपदानामपि विभागत्वेनेङ्गयत्वात् अविभागपदमेवानिङ्गयमिति युक्तम् । अनुशासनं शिक्षणम् इदमेव प्रयोक्तव्यम् ॥ End: एषानिङ्गचपदानां पदवी सन्दर्शिता सुधिया। देवमनीषिसुतेन श्रीवत्साङ्केन तैत्तिरीयाणाम् ॥ अनेन तैत्तिरीयशाखामधिकृत्य इदं शास्त्रं प्रदर्शितं शास्त्रविदो जमनामकीयविच्छेदाय ॥ For Private and Personal Use Only
SR No.020185
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1905
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy