________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSORIPTS. : - यनेदं निखिलं चराचरमही व्याप्तं पुराणैश्च यो वेद्यो भागवतोत्तमैश्च मुनिभिः संस्तूयमामश्च यः। वेदान्तेषु यमेव नित्यपुरुष संजज्ञिरे निर्मलं तं नित्यं पुरुषं वरेण्यमनिशं ध्याग्रामि सत्यं परम् / / सप्तस्वरैः समस्तैर्यश्चराचरमिदं अगत् / सञ्जीवयति विश्वात्मा स नो विष्णुः प्रसीदतुः।। सङ्गीतरूपवेदप्रदीपं सप्तस्वरसिन्धुं निर्मित्सुश्चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्तिप्रचयाद्यनेक श्रेयापरम्पराममिलपन् : "आशीनमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्" इस्यालङ्कारिकशासनमप्यनुसरन् सकलविधप्रत्यूहपरिपन्थि इष्टदेवतानमस्क्रियात्मकं स्वमनोरथसिद्धिप्रदस्वपुरनिवासिविट्ठलेशविषयकं परमपुरुषविषयक च मङ्गलमादी निबध्नाति बन्दे श्रीविठ्ठलमित्यादिना / Beginning of the commentary: श्रियः पतिं परं ध्यात्वा विभुं तं करुणामिधिम् / / व्यक्तं बालप्रबोधाय स्वरसिम्धोस्तु टिप्पणी / / बालानुरञ्जनी नाम ललिताक्षरगुम्फिता / . स्वरशिक्षादितत्वार्थबोधनकविचक्षणा / / श्रीनिवासतनूजेन श्रीरामानुजशर्मणा / अय्याशास्त्रीति विदुषो मात्रेयं क्रियते भया / / इह खलु सकलद्विजकुलतिलकः स्वरसङ्गीतशास्त्रसुधाम्नुभिमन्थाचलप्रख्यस्तत्रभवान् अय्याशास्त्रिनामक्रविकुञ्जरः, "साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छवितापाहीनः / " इति पौराणिकोत्या सङ्गीतान्तं कलामचामिति धिमा। 10 For Private and Personal Use Only