________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. 43 लब्धकामस्वहं तेभ्यो गमेय(?)पारमीप्सितम् / / पम्पायां न्यवसत् पूर्व वत्सानां कुलमृद्धिमत् / यस्मिन् द्विजवरा जाता बचाः पारगोत्तमाः // देवमित्र इति ख्यातस्तस्मिन् जातो महायशाः / चर्चापरः कुलश्रेष्ठः सुतस्तस्य महात्मनः // नाना यो विष्णुमित्रः सन् कुमार इति शब्द्यते / तेनेयं योजिता वृत्तिरुदाहरणमण्डिका // प्रतिगृह्णन्तु विप्रेन्द्राः सुप्रसन्ना इमां मम / अज्ञानादयथोक्तं यत् तदृतकृत्य योज्यताम् // अष्टौ समानाक्षराण्यादितः / अक्षरसमानायस्यादितः अष्टावक्षराणि समानाक्षरसंज्ञानि वेदितव्यानि / अ, आ, ऋ, ऋ, इ, ई, उ, ऊ इति / समानाक्षरसंज्ञायां प्रयोजनं समानाक्षरे संस्थान इति / तत्रोच्यते--वर्णसमाम्नाये विप्रतिपत्तिदृश्यते / अवर्णात् परम् ऋवर्णमेके उपदिशन्ति / उवर्गात् परमपरे / End : यश्छन्दमा वेद विशेषमेतं भूतानि च त्रैष्टुभजागतानि / सर्वाणि रूपाणि च भक्तितः स स्वर्ग जयत्येभिरथामृतत्वम् // यो ब्राह्मणश्छन्दसामेतं विशेष वेद भूतानि च त्रैष्टुभजागतानि यो वेद / सर्वाणि च रूपाणि त्रैष्ठुभजागतानि यो वेद भक्तितः स स्वर्ग लोकं जयति / अथ एभिः छन्दोभिरमृतत्वं गच्छति इत्याह भगवान् शौनकः / अपीह श्लोकाः गायत्र्यादीनि छन्दांसि सोममाहुतयः पुरा / For Private and Personal Use Only