________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 377 SANSKRIT MANUSCRIPTS. आत्मावासमुनीन्द्रस्य श्रीमच्चरणसेवया / लब्धावद्याविशुद्धयर्थं कृष्णसेवानुवृत्तये // श्रीमद्भागवतस्येयं सम्प्रदायानुसारिणी। श्रीमत्कृष्णप्रसादेन व्याख्येयं क्रियते मया // मन्त्रोऽपि जप्यते जप्तो वेदोऽधीतोऽप्यधीयते / अर्चितोऽप्यर्च्यते विष्णुः पूर्वैरद्यतनैरपि // पूर्वाचायैरभिहितोऽयं व्याख्याधर्म........ / पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना / / आक्षेपश्च समाधानमिति व्याख्यानलक्षणम् / अतिरिक्तं पदं त्याज्यं हीन वाक्ये निवेशयेत् / / विप्रकृष्टं च सन्दध्यादानुपूर्वी च कल्पयेत् / लिङ्ग धातुं विभाक्तं च योजयेच्चानुलोमतः // वाक्यार्थस्यानुसारेण तेषां च व्यत्ययोऽपि वा // Eud : अन्या त्वत्प्रसादाभावे अव्यक्तगतरलक्षितगमनस्य संसिद्धस्य साक्षात् कैवल्यभूतस्य गरीयसो गुरुतरस्य दर्शनं कुतः सम्भाव्यते / बन्धुभावकालोऽयम् / ननु पुरुषस्येह अस्मिन् समये यत्कार्य कर्तव्यं सर्वथा सर्वप्रकारेण तद् विवृणोति यच्छ्रोतव्यमित्यादिना / कर्तव्यम् अनुसेव्यं यद्वा विवक्षितार्थम् / हे सारज्ञाः न्यायविदः श्लक्ष्णया गिरा मश..........न धर्मज्ञाः गुरुशिष्यसंवादलक्षणधर्मज्ञाः / Colophon: इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीवासुदेवपुरीपूज्यपादपरमकारुण्यासादितश्रीकृष्णभक्तिसाम्राज्यस्य चतुर्वेदिश्रीम For Private and Personal Use Only