________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ..::SANSKRIT MANUSCRIPTS, 285 Owner-c. O Subject-Same as No. 114. Beginning: .. आपस्तम्बं मुनिं नत्वा प्रायश्चित्तशतद्वयीम् / . मन्दानां सुखबोधार्थ व्याकरिष्ये यथामति // तत्र तावच्चिकर्षितस्य ग्रन्थस्य विषयप्रयोजनादिकं दर्शयति नैमित्तिकेषु श्रुतिलक्षणेषु सूत्रे यदस्पष्टमिवाल्पबुद्धेः / तद्भाष्यवृत्त्याद्यनुसृत्य सम्यक् सुखावबोधाय विविच्यते तत् // हवियज्ञप्रायश्चित्तषु सोमप्रायश्चित्तेषु च मन्दबुद्धीनां सूत्रे यदस्पष्टमिव प्रतीयते तदेव प्रायश्चित्तं तेषां स्पष्टावबोधार्थ खरूपतो विषयतश्च विविच्य प्रदर्श्यते / सूत्रे अस्पष्टं व्याख्याने स्पष्टं भवति / भाष्ये वृत्तौ प्रयोगवृत्तौ च व्याकीर्णतया स्थितस्य प्रायश्चित्तस्य भाष्याद्यनुसृत्य क्रमेणैकत्र संग्र(ह?हे)प्रायश्चित्तार्थः सुखावबोधो भवति / तदर्थायमारम्भ इत्यर्थः / End : अनुक्तमत्राप्यपरिस्फुटं यत् तद् भाष्यवृत्यादिषु बोधनीयम् / तत्राप्यनुक्तं तु तदुक्तरीत्या यथानिमित्तं स्वयमूहनीयम् // न तावदस्मिन् संग्रहे सर्वाणि प्रायश्चित्तानि साकल्येन प्रतिपादयितुं शक्यन्ते विस्तरप्रसङ्गात् / अतः, अनुक्तमस्पष्टं चाभाष्ये वृत्ती For Private and Personal Use Only