________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 A DESCRIPTIVE CATALOGUE OF Owner-C. O. Subject-A discussion on domestic rituals in accor dance with Astakadisraddha. Beginning: याज्ञवल्क्याय नमः / परमयोगिने नमः / कात्यायनाय. महर्षये नमः / श्रीसूर्यनारायणाय परमगुरवे नमः / अविनमस्तु / - श्रौतान्याधानादीन्युक्तानि कर्माणि / तदनन्तरं स्मार्तान्यनुविधीयन्ते / तत्रैतदादिसूत्रम् / अथातो गृह्यस्थालीपाकानां कर्म / व्याख्यायत इति सूत्रशेषः / तत्रायमथशब्द आनन्तर्ये / श्रौतानुविधानसमनन्तरं स्मार्तान्यनुविधीयन्त इति / आनन्तर्यप्राप्तिः प्रयोजनम् / श्रौतेष्वधिकाराद्युपस्पृशेद् इत्येवमन्तं सर्वकर्मसाधारणं यत्तस्यात्रापि प्रवृत्तिर्यथा स्यादिति / पूर्वप्रवृत्तित्वं च श्रौतानामुपनिबद्धमित्येतत् सूत्रकारप्रवृत्त्या ज्ञायते / प्रोष्येत्य गृहानुपतिष्ठते पूर्ववदिति श्रौतेषु गृह्योपस्थानं विहितम् / End: मृते भर्तरि जीवन्तीत्यन्वारूढा चितागतिः / नाग्निकार्यविशेषोऽस्ति पृथक् पिण्डोदकक्रिया // . सपिण्डीकरणे दाहे सति तद्ग्रामवासिभिः / श्वस्ततो नोपगन्तव्यं गन्ता चेन्मरणं ध्रुवम् // प्रशुष्ककाष्ठज्वालाभिः केशाग्रे दहनं भवेत् / / आज्यशेषोपलिप्ताभ्यां पाणिभ्यामथ दाहकः॥ मृतपादौ समालिप्य प्रत्यक् दयात्यानपेक्षक:(१)। निपत्य भूमावुत्थाय धुविधः समन्वितः // For Private and Personal Use Only