________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 A DESCRIPTIVE CATALOGUE OF Beginning : आपस्तम्बमृषि वन्दे यत्प्रसादादमी वयम् / वर्गादिमोक्षपर्यन्तां वैदिकी सिद्धिमाप्नुमः // ग्रन्थानालोच्य भाष्यादीन् गार्यगोपालयज्वना / आपस्तम्बा...द्धस्तु पितृमेधोऽनुवर्ण्यते // इह तावत् भगवता सूत्रकारेण व्याख्यातानि वैतानिकानि गृह्याणि च कर्माणि / अथेदानीं पितृमेधाख्यः पुरुषसंस्कारो व्याख्यायत / तस्योभयं प्रयोजनम् / पारलौकिकफलानुभवयोग्यतापत्तिश्च कर्मोपयुक्तशरीरप्रतिपत्तिश्चेति / पठिष्यति ह्याचार्यः यत्तु श्मशानमुच्यते नानाकर्मणामेषोऽन्ते पुरुषसंस्कारो विधीयते / ततः परमानन्त्यं फलम् / स्वर्गशब्दात् श्रूयत इति / तत्रैवं विवेको द्रष्टव्यः / खननं दहनं त्याग इति या त्रिविधोच्यते / शरीरसंस्क्रिया सा तु परलोकजयावहा // विधिः श्मशानसंयुक्तो योऽन्यः संचयनादिकः / कोपयुक्तदेहस्य प्रतिपत्त्यर्थ एव सः // इति // End: आचार्यादन्यस्मै प्रेताय प्रयुञ्जीत / अथवा सर्वेभ्यः श्रोत्रियेभ्यो वेदतदर्थविद्भ्यः प्रयुञ्जीत न तु कदाचि(द)श्रोत्रियाय सन्तिष्ठते ब्रह्ममेधः संस्था समाप्तिः / चतुर्थं पटलम् / अथ लोष्टचितिरुच्यते / सा तु स्वमते पुनर्दहनेन विकल्प्यते सर्वाहितामिषु परमते त्वग्निचिन्सु व्यवतिष्ठत मइत्युक्त / For Private and Personal Use Only