________________
Shri Mahavir Jain Aradhana Kendra
दान
॥५४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गंधमादने ॥ प्राङ्मुखोवेदमूर्तिर्विपुलाचले ॥ हैमीसुपार्श्वदक्षिणामुखीसुरभिः । अन्यत्सर्वेधान्यपर्वत चंद्रवत् ॥ अद्येत्यादि० सकलपापक्षयानंतरकल्पशतावधिविष्णुलोक निवासानंतर सप्तदीपाधिपत्योत्तरंज न्मायुतम् यावदविच्छिन्नायुरारोग्यकामइतिसंकल्पेदानवाक्येचवक्तव्यम् || मंत्रस्तु || आरोग्यामृतसा रोऽयं परमः शर्कराचलः ॥ तन्ममानंदकारीत्वंभव शैलेंद्रसर्वदा ॥ अमृतं पिवतांयेतु निपेतुर्भुविसीकराः ॥ देवानां तत्समुत्थोऽयं पाहिनः शर्कराचल ॥ मनोभवधनुर्मध्यादुद्भूताशर्करायतः ॥ तन्मयोऽसि महाशैल पाहिसंसारसागरात् इति ॥ सर्वत्रब्राह्मणभोजनं शक्त्या कार्यमेव ॥ तदापूर्वेद्युः कृतोपवासः परे युर्दानानंतरमक्षारलवणंभुंजीत ॥ एवंप्रसन्नचित्तोदानंदद्यादिति ॥ इतिशर्कराचलदानम् ॥ इतिदशाच लदानानि ॥ अथ शिखरदानानि ॥ विष्णुधर्मे | गुडेक्षुवस्त्रलवणधान्यकाजाजिशर्कराः ॥ खर्जूर रतंडुलद्राक्षाक्षौद्रंमलयजेनच ॥ फलैर्मनोहरैश्चैवशिखराणिप्रदापयेत् ॥ माघेमार्गशीर्षेर्वशाखे रोहिणी युतायांतृतीयायां प्रोष्ठपदशुक्कवृतीयायांचदद्यात् ॥ शिखरप्रमाणंतु आत्मसमप्रमाणंप्रादेशाभ्यधिकंशरीरा धेप्रमाणंसप्रादेशंशरोरप्रमाणंवा ॥ ॥ अथास्यदानप्रयोगः ॥ उक्तकालयजमानः कृतनित्यक्रियः पूर्वाह्ने
For Private and Personal Use Only
॥५४॥