________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Bhagavadgita Word-Index Pt. II-A (a)
772. रक्षस्-(१) यक्षरक्षसाम्। (२) यक्षरक्षांसि । -[विग्रहपद्धतिभ्यां 'यक्ष' (२-३)
शब्दौ दृष्टव्यौ। 773. रजस्-शान्तरजसम्–शान्तः (प्रक्षीणः) रजः (मोहादिक्लेशः) यस्मात् तत् । 774. रजोगुण-रजोगुणसमुद्भवः-रजोगुणात् समुद्भवः यस्य सः। 775. रण-रणसमुद्यमे-रणस्य (युद्धस्य) समुद्यमः रणसमुद्यमः; तस्मिन् । 776. रत-वेदवादरताः–वेदवादे [ वेदानां, वेदनिमित्तको वा, वादः वेदवादः (वेदवाक्याना
बह्वर्थफलसाधनप्रकाशकत्वमिति वादः) तस्मिन् ] रताः। 777. रति-(१) अरतिः । (२) आत्मरतिः।-(१) न रतिः (रतेरभावः)। (२) [विग्रह
पद्धत्यै 'आत्मन्' (११) शब्दो दृष्टव्यः । 778. रथ-(१) महारथः। (२) महारथाः; (३) रथोत्तमम्। (४) रथोपस्थे ।-(१-४)
[विग्रहपद्धतिभ्यः ‘महत्' (१५-१६), 'उत्तम' (१०) 'उपस्थ' शब्दाः क्रमेण
दृष्टव्याः । 779. रस-(१) गतरसम् । (२) रसवर्जम् । (३) रसात्मकः ।-(१) [विग्रहपद्धत्यै 'गत'
(३) शब्दो दृष्टव्यः । (२) (विषयेषु यो रागः सः) रसः, तं वर्जयित्वा इति
रसवर्जम् । (३) [विग्रहपद्धत्यै 'आत्मक' (२) शब्दो दृष्टव्यः ।। 780. रहित-सङ्गरहितम्-सङ्गात् रहितम् (फलासङ्ग विना)। 781. राग-(१) रागद्वेषौ। (२) रागात्मकम् । (३) वीतरागाः।-(१-२) [विग्रह
पद्धतिभ्यां 'द्वेष', 'आत्मक' (३) शब्दौ दृष्टव्यौ। (३) वीतः रागः येषां ते
वीतरागाः। 782. रागद्वेष-(१) अरागद्वेषतः । (२) रागद्वेषवियुक्तैः।-(१) (रागश्च द्वेषश्च रागद्वेषौ,
ताभ्यां रागद्वेषतः), न रागद्वेषतः अरागद्वेषतः। (२) रागद्वेषाभ्यां (रागश्च द्वेषश्च
रागद्वेषौ, ताभ्यां) वियुक्ताः रागद्वेषवियुक्ताः, तैः। 783. रागभयक्रोध-(१) वीतरागभयक्रोधः। (२) वीतरागभयक्रोधाः।-(१-२) वीताः
रागभयक्रोधाः (रागः, भयं, क्रोधश्च, एतेषां समाहारः), यस्मात् सः वीतरागभयक्रोधः,
येभ्यः ते वीतरागभयक्रोधाः । 784. राज-(१) काशिराजः। (२) राजगुह्यम्। (३) राजर्षयः। (४) राजविद्या। (५)
सिन्धुराजः।-(१-३) [विग्रहपद्धतिभ्यः 'काशि', 'गुह्य', 'ऋषि' (५) शब्दाः क्रमेण दृष्टव्याः] । ( ४ ) राज्ञां विद्या, विद्यानां राजा वा, राजविद्या । (५) सिन्धु
नामकदेशस्थः राजः सिन्धुराजः। 785. राज्य-त्रैलोक्यराज्यस्य-(विग्रहपद्धत्यै 'त्रैलोक्य' शब्दो दृष्टव्यः)। 786. राज्यसुख-राज्यसुखलोभेन-राज्यसुखस्य (राज्यस्य प्राप्त्या अनुभूयमानं सुखम्
राज्यसुखम्, तस्य) लोभः राज्यसुखलोभः, तेन ।
280
For Private and Personal Use Only