________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Secondary Word-Units
520. निद्रा-(१) निद्रालस्यप्रमादोत्थम्। (२) प्रमादालस्यनिद्राभिः।-(१-२) [विग्रह
पद्धतिभ्यां 'आलस्य' (१-२) शब्दौ दृष्टव्यौ । 521. निधन-अव्यक्तनिधनानि-[विग्रहपद्धत्यै 'अव्यक्त' (१) शब्दो दृष्टव्यः] । 522. निन्दात्मसंस्तुति- तुल्यनिन्दास्मसंस्तुतिः- (विग्रहपद्धत्यै 'आत्मसंस्तुति' शब्दो
दृष्टव्यः)। 523. निन्दास्तुति-तुल्यनिन्दास्तुतिः-विग्रहपद्धत्यै 'तुल्य' (२) शब्दो दृष्टव्यः] । 524. निमित्त-निमित्तमात्रम्-निमित्तं मात्रम् (निमित्तं एव)। 525. नियत-(१) नियतमानसः। (२) नियतात्मभिः। (३) नियताहाराः। (४) स्वभाव
नियतम्-(१) नियतं मानसं यस्य सः नियतमानसः। (२-३ ) [विग्रहपद्धतिभ्यां 'आत्मन्' (२७) 'आहार' (१) शब्दो क्रमेण दृष्टव्यो] । (४) स्वभावेन (स्वस्य भावः
स्वभावः, तेन, स्वप्रकृतिना) नियतम् स्वभावनियतम् । 526. निरत-स्वकर्मनिरतः-स्वकर्मे (स्वस्य कर्म स्वकर्म, तस्मिन् ) निरतः। 527. निरीश् ईम् + नि-दुर्निरीक्ष्यम्-विग्रहपद्धत्यै 'दुःख' शब्दो (५) दृष्टव्यः ।। 528. निर्गत-(१) निरग्निः। (२) निरहङ्कारः। (३) निराशीः। (४) निराश्रयः। (५)
निराहारस्य । (6) निर्गुणत्वात् । (७) निर्गुणम्। (८) निर्दोषम्। (९) निन्द्रः । (१०) निर्ममः। (११) निर्मलत्वात् ।। (१२) निर्मलम् । (१३) निर्मानमोहाः । (१४) निर्योगक्षेमः। (१५) निर्विकारः। (१६) निर्वैः। (१७) निस्वैगुण्यः । (१८) निःस्पृहः।-(१-९) [विग्रहपद्धतिभ्यः 'अमि' (४), 'अहङ्कार' (४), 'आशा' (१), 'आश्रय' (१) 'आहार' (२) 'गुणत्व', 'गुण' (१२), 'दोष' (१), 'द्वन्द' (३) शब्दाः क्रमेण दृष्टव्याः । (१०) निगतं ममत्वं यस्मात् सः निर्ममः। (११-१२) निर्गतः भलः यस्मात् तत् निर्मलम् , तस्य भावः निर्मलत्वम् ; तस्मात् निर्मलत्वात् । (१३) निर्गतौ मानमोहभावौं येभ्यः ते निर्मानमाहाः । (१४) निर्गता योगक्षेमस्य (अप्राप्तस्य प्रापणं योगः, प्राप्तस्य रक्षणं क्षेमम्, तयोः समाहारः योगक्षेमम् , तस्य) स्पृहा यस्मात् (यस्य हृदयात् ) सः निर्योगक्षेमः। (१५) निर्गतः विकारः यस्मात्सः निर्विकारः। (१६) निर्गतः वैरभावः यस्मात् (यस्य हृदयात् ) सः निर्वैरः । (१७) [विग्रहपद्धत्यै ‘त्रैगुण्य' (२) शब्दो दृष्टव्यः । (१८) निर्गता
स्पृहा यस्मात् (यस्य हृदयात् ) सः निःस्पृहः। 529. निर्देश्य-अनिर्देश्यम्-न निर्देश्यम् (निर्देशयोग्यम् )। 530. निर्धूतकल्मष-ज्ञाननिषूतकल्मषाः-[विग्रहपद्धत्य 'ज्ञान' शब्दो (१०) दृष्टव्यः] । 531. निर्मुक्त-द्वन्द्वमोहनिर्मुक्ताः-(विग्रहपद्धत्यै 'द्वन्द्वमोह' शब्दो दृष्टव्यः)। 532. निर्वाण-(१) निर्वाणपरमाम् । (२) ब्रह्मनिर्वाणम् ।-(१) निर्वाणं (मोक्षः) परमा
___ निष्ठा यस्याः सा निर्वाणपरमा, ताम्। (२) ब्रह्मणि निर्वाणम् ब्रह्मनिर्वाणम् ; तम्
__ब्रह्मनिर्वाणम् (ब्रह्मणि शान्तिः, ताम् )। 533. निर्विण्ण-निर्विण्णचेतसा-[विग्रहपद्धत्यै 'चेतस्' (५) शब्दो दृष्टव्यः] । 534. निवात-निवातस्थ:-निवाते (निर्गतः वातः यस्मात् सः निवातः, तस्मिन् देशे) स्थितः।
263
For Private and Personal Use Only