________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Bhagavadgitā Word-Index Pl. II-A(a) 455. दुःख-(१) जन्ममृत्युजरादुःखैः। (२) दुरत्यया। (३) दुरासदम् । (४) दुर्निग्रहम् ।
(५) दुर्निरीक्ष्यम् । (६) दुर्लभतरम् । (७) दुष्पूरम्। (८) दुष्पूरेण । (९) दुष्प्रापः । (१०) दुःखयोनयः। (११) दुःखसंयोगवियोगम् । (१२) दुःखहा। (१३) दुःखान्तम् । (१४) दुःखालयम्। (१५) सर्वदुःखानाम् । (१६) सुखदुःखानाम्। (१५) सुखदुःखे।-(१-३) विग्रहपद्धतिभ्यः 'जन्ममृत्युजरा', 'अत्या', 'आसद' शब्दाः क्रमेण दृष्टव्याः] । (४) दुःखेन निग्रहः क्रियते यस्य तत् दुर्निग्रहम् । (५) दुःखेन यत् निरीक्ष्यते तत् दुर्निरीक्ष्यम् । (६) दुःखेन लभ्यम् दुर्लभम्, दुर्लभस्य अन्यस्य अपेक्षया दुर्लभम् , दुर्लभतरम्। (७-८) दुःखेन यः पूर्यते सः दुष्पूरः, तम् दुष्पूरम् । तेन दुःपूरेण। (९) दुःखेन यः प्राप्यते सः दुष्प्रापः। (१०) दुःखानां योनयः (उत्पत्तिस्थानानि) दुःखयोनयः। (११) दुःखेन यस्य संयोगवियोगी (संयोगश्च वियोगश्च) भवतः तत् दुःखसंयोगवियोगम्। (१२) दुःखान् हन्तीति दुःखहा। (१३-१४) [विग्रहपद्धतिभ्यां 'अन्त' (११), 'आलय' (१) शब्दो क्रमेण दृष्टव्यौ । (१५) सर्वेषां दुःखानाम् सर्वदुःखानाम् । (१६) सुखानि च दुःखानि च सुखदुःखानि,
तेषां सुखदुःखानाम् । (१७) सुखं च दुःखं च सुखदुःखे। 456. दुःखशोकामय–दुःखशोकामयप्रदाः-दुःखशोकामयान् [दुःखशोकाः (दुःखानि च
शोकाश्च) एव आमयाः दुःखशोकामयाः, तान् ] ये प्रयच्छन्ति ते। 457. दुःखसुख-(१) समदुःखसुखम् । (२) समदुःखसुखः ।-(१-२) समानि दुःख
सुखानि (दुःखानि च सुखानि च) यस्य (मनसि) सः समदुःखसुखः, तम्
समदुःखसुखम्। 458. दूर-दूरस्थम्-दूरे स्थितम् । 459. दृढ-(१) दृढनिश्चयः । (२) दृढव्रताः।-(१) दृढः निश्चयः यस्य सः दृढनिश्चयः ।
(२) दृढानि व्रतानि येषां ते दृढव्रताः। 460. दृष्ट-(१) दृष्टपूर्वम् । (२) विधिदृष्टः ।-(१) पूर्व दृष्टम् दृष्टपूर्वम् । (२) विधिना
दृष्टः विधिदृष्टः (विधिवाक्यैः निर्दिष्टः)। 461. दृष्टपूर्व-(१) अदृष्टपूर्वम् । (२) अदृष्टपूर्वाणि ।-(१-२) यत् पूर्व न दृष्टं तत्
__ अदृष्टपूर्वम् । यानि...न दृष्टानि तानि अदृष्टपूर्वाणि । 462. देव-(१) अधिदैवम् । (२) आदिदेवम् । (३) आदिदेवः । (४) देवदेव । (५) देव.
देवस्य । (6) देवद्विजगुरुप्राज्ञपूजनम् । (५) देवभोगान् । (6) देवयजः । (९) देवर्षिः । (१०) देवर्षीणाम् । (११) देववर । (१२) देवत्रताः। (१३) देवेश ।-- (१-३) [विग्रहपद्धतिभ्यः 'अधि' (२), 'आदि' (६-७) शब्दाः क्रमेण दृष्टव्याः ] । (४-५) देवानां देवः देवदेवः; तस्य देवदेवस्य । संबोधने विसर्गलोपः। (६) (विप्रहपद्धत्यै 'गुरु' शब्दो दृष्टव्यः)। (७) देवानां भोगाः देवभोगाः, तान् देव. भोगान् । (८) देवान् ये यजन्ति ते देवयजः । (९-१०) [विग्रहपद्धतिभ्यो 'ऋषि' (१-२) शब्दो क्रमेण दृष्टव्यो] । (११) देवानां वरः देववरः; संबोधने विसर्गलोपः । (१२) देवानां तुष्टये ये प्रतानि आचरन्ति ते देवव्रताः। (१३) [विप्रहपद्धत्य 'ईश' (४) शब्दो दृष्टव्यः
258
For Private and Personal Use Only