________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Bhagavadgita Word-Index Pt. II-A (a)
417. त्यागिन्-(१) अत्यागिनाम् । (२) कर्मफलत्यागी।-(१) न त्यागिनः अत्यागिनः,
तेषाम् अत्यागिनाम् । (२) [विग्रहपद्धत्यै 'कर्मफल' (२) शब्दः दृष्टव्यः । 418. चय-(१) लोकत्रयम् । (२) लोकत्रये ।-(१-२) त्रयाणां लोकानां समाहारः
लोकत्रयम् । तस्मिन् लोकत्रये । 419. त्रयी-त्रयीधर्मम्-त्रय्या (वेदत्रयेन) विहितः धर्मः श्रयीधर्मः (कर्मानुष्ठानम् ), तम्
त्रयीधर्मम् । 420. षि-(१) त्रिधा । (२) त्रिविधम् । (३) त्रिविधः। (४) त्रिविधा । (५) धर्म्यम् ।
(६) त्रैविद्याः-(१) त्रिभिः रीतिभिः त्रिधा। (२-४) त्रयो विधाः यस्य, सः त्रिविधः; तत् त्रिविधम् ; त्रयः विधाः यस्याः सा त्रिविधा । (५) त्रयीषु ये धर्माः तद्वत्त्वम् त्रैधर्म्यम् । त्रयाणां होत्रादीनां वेदत्रयविहितानां धर्माणां समाहारः त्रिधर्मम् , तदेव त्रैधर्म्यम् इति तु आनन्दगिरिः। (६) तिस्रः विद्याः (ऋग्यजुःसामाः) ये अधीयन्ते,
विदन्तीति वा, ते त्रैविद्याः। 421. चैगुण्य-(१) त्रैगुण्यविषयाः, (२) निस्तैगुण्यः-(१) त्रैगुण्यं (त्रयाणां गुणानां
कर्मफलसम्बन्धलक्षणः समाहारः) विषयः येषां ते त्रैगुण्यविषयाः। (२) निर्गत
त्रैगुण्य (त्रिभिः गुणैः सम्बन्धः) यस्मात् सः निस्त्रैगुण्यः (निष्कामः)। 422. चैलोक्य-त्रैलोक्यराज्यस्य-त्रैलोक्यस्य (त्रयाणां लोकानां समाहारः त्रैलोक्यम् ,
तस्य) राज्यम् त्रैलोक्यराज्यम् , तस्य । 423. त्वत् (युष्मद)-(१) त्वत्प्रसादात् । (२) त्वत्समः । (३) त्वदन्यः । (४) त्वदन्येन । -
(१) तव प्रसादः त्वत्प्रसादः, तस्मात् त्वत्प्रसादात् । (२) तव समः त्वत्समः । (३-४ ) त्वत्तः अन्यः त्वदन्यः; तेन त्वदन्येन ।
424. दक्षिण-(१) अदक्षिणम् । (२) दक्षिणायनम् ।-(१) न दीयते दक्षिणा यस्मिन् सः
____ अदक्षिणः, तम् अदक्षिणम् । (२) [विग्रहपद्धत्यै 'अयन' (२) शब्दो दृष्टव्यः । 425. दग्धकर्मन्-ज्ञानाग्निदग्धकर्माणम्-(विग्रहपद्धत्यै 'ज्ञानाग्नि' शब्दो दृष्टव्यः)। 426. दम्भ-(१) दम्भमानमदान्विताः, (२) दम्भार्थम् (३) दम्भाहकारसंयुक्ताः-(१)
[विग्रहपद्धत्यै 'अन्वित' शब्दो (३) दृष्टव्यः] । (२) [विग्रहपद्धत्यै 'अर्थ' (१४) शब्दो
___दृष्टव्यः । (३) [विग्रहपद्धत्यै 'अहङ्कार' (३) शब्दो दृष्टव्यः । 427. दम्भित्व-अदम्भित्वन् ।-न दम्भित्वम् (दम्भित्वस्य अभावः)। 428. दंष्ट्रा-दंष्ट्राकरालानि-[विग्रहपद्धत्यै 'कराल' (१) शब्दो दृष्टव्यः] । 429. दर्शन-(१) तत्त्वज्ञानार्थदर्शनम् । (२) दर्शनकाक्षिणः ।-(१) (विग्रहपद्धत्यै 'तत्त्व
ज्ञानार्थ' शब्दो दृष्टव्यः) । (२) [विग्रहपद्धत्यै 'काक्षिन्' (१) शब्दो दृष्टव्यः ] । 430. दर्शिन्-(१) तत्त्वदर्शिनः। (२) तत्त्वदर्शिभिः। (३) समदर्शिनः । -(१-२)
[विग्रहपद्धत्यै 'तत्त्व' (१-२) शब्दौ दृष्टव्यौ) । (३) समं ये पश्यन्ति ते समदर्शिनः । 431. दशन-दशनान्तरेषु ।-विग्रहपद्धत्यै 'अन्तर' (२) शब्दो दृष्टव्यः ।
256
For Private and Personal Use Only