SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्ये च्युतः प्रसूनैर्घनकेशबन्धान्मृगीदृशां तारकिते जलेऽस्मिन् ।। निरीक्ष्यमाणं तरुणैश्चकोरैः कस्याश्चिदास्यं शशभृद्धभूव ॥ २१ ।। एवं जलक्रीडापरायणेषु पुरतरुणेषु, तटिनीतटालङ्कारभूतयोः कुबेरमित्रकुबेरदत्तनामजलधिसंभूतयोर्गुणमालासुरमञ्जरीनामधेययोः कन्या - रत्नयोः, चन्द्रोदयसूर्योदयाभिधपरस्परपटवासचूर्णोत्कर्षस्पर्धया पराजिता नवापगाजलस्नाता मा भूदिति कृतसंगरयोः, कुट्टिन्यौ, चूर्णमादाय, तत्र तत्र विचार्य, क्रमेण जीवंधरनिकंटमागत्य, चन्द्रोदयसूर्योदययोर्मध्ये कः श्लाघ्य इति पृच्छाञ्चक्रतुः । स्वामी च चन्द्रोदयचूर्णमूचे श्लाव्यं तदन्यदनकालयोग्यम् । आद्य किरन्व्योनि समावृतालिं निर्दिश्य च प्रत्ययमाततान ॥२२॥ ततः कुमारं कुरुवंशवीरं नत्वा च नुत्वा विनिवृत्य चेट्यौं । स्वस्वामिनीसंनिधिमेत्य वेगाद्विज्ञापयामासतुरेवमेव ।। २३ ॥ उभयोश्चूर्णयोरात्तगन्धभावे समेऽपिच ।। जीवकेन विनिर्दिष्टे शुशोच सुरमञ्जरी ॥ २४ ॥ उल्लासयामास मुखाम्बुनातं चन्द्रोदयोऽयं गुणमालिकायाः। मूर्योदयो द्राक्सुरमञ्जरीश्रीवकाब्जशोषं व्यतनोद्विचित्रम् ॥२५॥ ततः पराभवजनितदुरासदेाकलुषितचेतना मुरमञ्जरी सख्या गुणमालया बहुधा प्रार्थिताप्यकृतस्नानैव निवृत्य जीवकादपरं नरं न पश्यामीति निश्वस्य कृतसन्धाबन्धा रोषान्धा कन्यागारं प्रविवेश । वयस्याविप्रयोगेन गुणमाला शुशोच सा । चन्द्रिकाया वियोगेन प्रातस्त्पलिनी यथा ॥ २६ ॥ तावत्सक्थिनवप्रभुग्नपवनाटोपोत्कटोत्पाटितैः शाखानां वलयनिरभ्रगगनेऽप्यभ्रभ्रमं भावयन् । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy