________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्बः ।
युक्तं न किं कुमारस्य मारान्तत्वप्रकल्पनम् ॥९४ ॥ इत्यादिवचनसायकेन निजनायकेन समर्पितं नयनानन्दनं नन्दनं सुनन्दापि समाददाना तदङ्गसौष्ठवकलावलोकनजनितदृष्टिदोषपरिहारायेव तरलतरकटाक्षनीलोत्पलदाममेचकरुचिवीचिकाविचितमातेने । पायंपायं नयनचषकै रूपलावण्यलक्ष्मी
सौधों धारां प्रकृतिमधुरां वैश्यनायापती तौ । स्पर्शस्पर्श कसममृदुलं विग्रहं तस्य सूनो
स्तृप्ति प्राप्यानितरसुलभां प्रापतुर्विस्मयाब्धिम् ॥ ९५ ॥ देवता च महिषीतनुवल्लयाः साम्यमाश्रमलतास्विव द्रष्टुम् । बान्धवालयपराङ्मखीमिमां दण्डकावननिवासमनैषीत् ॥ ९६ ॥
अथ समीहितार्थसिद्धिजनिततोषकलितायां देवतायां सव्याजमन्तहितायामियं च राजपत्नी नैजमानससरोवरे सन्ततविकचजिनपादपयोनविशोभिते नन्दनराजहंसं संक्रीडयामास ।
या हंससतूलशयनस्थलतान्तवृन्त.
छेशासहा पुरि पुराजनि काननान्ते । दर्भेषु हन्त शयनं बहुमन्यते स्म
सा मालतीकुसुमकोमलगात्रवल्ली ॥९७ ॥ पुरेऽपि मानिनीवारतोषितायाः सतीमणेः ।
काननेऽजनि नीवारोऽप्याहारोऽस्याः किमद्भुतम् ॥ ९८ ॥ सावन्नन्दनसमागमसंजातमोदबन्धोत्कटेन तंतन्यमानं महोत्सव. सार्थमात्मार्थ गणयता सकलसद्धर्मपरमकाष्टाङ्गारेण काष्ठाङ्गारेण दापितमर्थजातं तत्क्षणजातैस्तदाज्ञासमानांतरितरैरपत्यैः सह लब्ध्वायमूरुजपतिरितरात्मजैः समं निजात्मजमविशेषेण वर्धयामास ।
यथा यथा जीवकयामिनीशो विवृद्धिमागाद्विलसत्कलापः ।
For Private And Personal Use Only