SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः । मानेक्षणावसरः, सामनविराजितैर्गरुडवेगगोविन्दपल्लवपतिलोकपाल. प्रभृतिभिर्महीपालैः परिवृतसविधप्रदेशः, शताङ्गसंगतैनन्दाढयप्र. मुखैः सहोदरैः पद्मास्यप्रभृतिभिः सहचरैश्च परिशोभितः, प्रस. ननिनमुखसुधाकरालोकैरुलसता बलजलधिना मेदुरपुरोभागः, सह द्वेगमहमहमिकया सरभसापनीतातपत्रान्परस्परोत्पीडनकुपिततुर ङ्गमनिवारणायाससहानेकैकशः प्रतिनामग्रहणं समीपगतैः काठाङ्गारवन्धुभिरावेद्यमानान्प्रणामसमयप्रचलितमकुटतटघटितपारागप्रभा. प्रसरणकैतवेन प्रकटीकृतानुरागाञ्छात्रवपक्षलक्षितक्षोणीपतीन्यथाई बहुमन्यमानः, समरसमानीतसपत्नलक्ष्मीनिवासविकचपुण्डरीकाय. मानेन निजबलजलधिफेनकूटशङ्कावहेनातपत्रेण विभ्रानितः, पार्श्वद्वयसमुधूयमानचामरसमीरनर्तितकर्णावतंसः, पुरतो 'जय जय' इति मधुरमुच्चैः पठता वन्दिवृन्देन पापयमाननिजबिरुदवैभवः, क्रमेण समासाद्य तत्र ध्वजकलशतोरणवितानाद्यष्टशोभाभिरलंकृतायु. रथ्यासु प्रविशमानः, सकलपुरतरुणीजनबाहुवंशगलितमुक्ताफलाय . मानैः पुष्पलाजोपहारैः संभाव्यमानो रानमन्दिरमाससाद । तत्र च, विसृष्टनिखिलावनीपतिचयः कुरूणां पति मितेः परिजनेयुतः प्रविशति स्म सोऽन्तःपुरम् । निमग्नमरिकामिनीजनमतीव शोकाम्बुधौ निरीक्ष्य करुणाकरः सपदि सान्त्वनायोद्यतः ॥ १२६ ।। ततः कुरुवीरः शोकसन्त्रासदीनमन्तःपुरिकाजनं समीपमानीय तत्र कुररीमिव क्रन्दन्ती काठाङ्गारमहिषीं तत्पुत्रांश्चावलोक्य कृपातरङ्गितः परिसान्त्वनकलाप्रवीणः पीयूषमधुराभिर्विचित्राभिर्गिरां परंपराभिः समाश्चासमानिन्ये । पङ्गिः १. साम जविराजितः, गजारूटैः । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy