________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य कालिन्दीसलिलादरे विजयिनो वातेन घूर्णायिते प्रोन्मत्तभ्रमरावलीढजठरे सत्पुण्डरीके इव ॥ भग। गरुडस्तम्बस्य पश्चादवस्थाय सस्पृहं पश्यति। मुकु। आचार्य पश्य पश्य।
क्षणात् प्रदीपावलयः समन्तागम्भीरिकायाः कुहरे ज्वलन्त्यः। विलोचनात्मारिभिरस्रपूरै
य॑ग्भूतभासो लिखिता इवाऽऽसन्। गोपी। पश्य पश्य । अनुवदनप्रक्षालनमभ्यङ्गस्नानभूषणाद्यमथ।
अनु बालभोगलीला हरिवल्लभभोग एष तत्पश्चात् ॥ दृश्यतामधुना प्रातधूपाख्यः पूजाविशेषः । भग। यानन्दस्तिमित एव सपुलकासं पश्यत्येव ।
आचा। भो भो जगदानन्दादयः पश्यत पश्यत। प्रात—पस्य प्रसादानं कियदञ्जली कृत्वा कश्चित् मालाच्चकरयोः कृत्वा कश्चिद्युगपदेव समागच्छतः किमेतौ । महाप्रभवे श्रीकृष्णचैतन्याय दास्यतः। केन वा प्रेरितावेतौ। अथ वा श्रीजगनाथेनैव । प्रविश्य पार्षदौ श्रीकृष्णचैतन्यसमीपमुपसर्पतः। भग। उपसृत्य मानमवनमयति । एकः मालां प्रयच्छति। भग। वहिवासोऽञ्चल प्रसारयति। अपरः। प्रसादानं प्रयच्छति।
For Private And Personal Use Only