________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य मुरा। अस्त्युपायो विचारस्य। स। कथमिव। मुरा। आत्मवर्गमध्ये विचार्य्यताम् । कोऽत्र न वर्तते । सर्व्व। सम्यगुक्तमेतेन । इति मियो विचारयन्ति । मरा। अहोमयाकलितम्। सर्वे । तत् किम्। मुरा। नित्यानन्दमहानुभाव आचार्य्यरत्नच्च। सर्व्व। कुत इदमुपयुज्यते। मुरा। एतावति कष्टे यद्यत्र तावभविष्यतां तदाऽत्रैवागमिप्यताम्।
सर्व्व। किञ्चिदाश्वस्य । अहो अस्माकं यथा तथा भवतु स चेदेकाकी न भवति तेनैव किच्चिदाश्वस्तमम्माभिः ।
अहै। अये मुकुन्द त्वमनया वार्त्तया मातरमाश्वासय "मातस्तं प्रति चिन्ता न कार्यो नित्यानन्दाचार्य्यरत्नाभ्यां कार्यविशेषार्थं कापि देवेन गतमस्ति समागतप्रायोऽयम्" इति वक्तव्यम्।
मुकु । यथाऽऽज्ञापयति । इति निष्कान्तः । अदै। हहो विश्वम्भरदेवप्रियाः किच्चिद्वैर्यामिव जातं चेतसः । यतस्तावुभाववाभियुक्तौ तयोः सतोः स्वतन्त्रोऽपि भगवान्नखातन्यं न करिष्यति। हन्त किमद्देश्यं तस्य यदर्थमिदमध्यवसितम्
तीर्थाटनञ्चेत् किमपह्नवेन गन्तं समथीः सह तेन सर्व्व।
For Private And Personal Use Only