________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 350 सिद्धान्तकौमुदीसहिता [यङ्लुक् परस्मैपदम् / 'अनुदात्तङितः-' (सू 2157) इति तु न / ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः / यत्र हि 'प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्' / अत एव सुदृषत्प्रासाद इत्यत्र ‘अत्वसन्तस्य-' (सू 425) इति दी? न / येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न / अनुदात्तङित:--' (सू 2157) इत्यनुबन्धनिर्देशात् / तत्र च 'श्तिपा शपा-' (प 132) इति निषेधात् / अत एव श्यन्नादयो न / गणेन निर्देशात् / किं तु शबेव / 'चर्करीतं च' इत्यदादौ पाठाच्छपो लुक् / यङन्तधातुस्तु न तथा आत्मनेपदनिमित्तः / डकारानुबन्धसत्वादित्यत आह / अनुदात्तङित इति तु नेति // कुत इत्यत आह / ङित्त्वस्येति // तदेवोपपादयति / यत्र हीति // यत्र प्रत्यये लुप्तेऽपि प्रत्ययमात्रवृत्तिधर्मपुरस्कारेण तमाश्रित्य कार्यप्रवृत्तिरिष्यते तत्रैव प्रत्यय. लक्षणम् / यथा राजेयत्र / तत्र हि लुप्तं सुष्प्रत्ययं सुबात्मकप्रत्ययमात्रवृत्तिधर्मपुरस्कारेणाश्रित्य सुबन्ततया पदत्वात् ‘नलोपः' इति नकारलोपप्रवृत्तिः। द्वित्त्वन्तु न प्रत्ययमात्रधर्मः / 'ऋतेरीयङ' इत्यादिप्रत्ययेष्वप्रत्ययेष्वपि चित्रादिषु सत्वात् / ततश्च यडि लुप्ते सति प्रत्ययलक्षणेन तमाश्रित्य तद्वृत्तिङित्त्वप्रयुक्तकार्यमात्मनेपदन्न शङ्कितुं शक्यमिति भावः / ननु यत्किञ्चिद्धर्मपुरस्कारेण प्रत्ययाश्रयकार्ये प्रत्ययलक्षणङ्कुतो नेत्यत आह / अत एवेति // प्रत्ययमात्रवृत्तिधर्मपुरस्कारेण प्रत्ययाश्रयकार्ये प्रत्ययलक्षणाश्रयणादेवेत्यर्थः / दी| नेति // सु शोभनाः दृषदः यस्य सः सुदृषत्प्रासाद इत्यत्र समासावयवत्वाल्लुप्तं जसं प्रत्ययलक्षणेनाश्रित्य प्राप्तः असन्तत्वलक्षणो दीर्घो न भवति / उणादीनामव्युत्पत्तिपक्षे व्युत्पत्तिपक्षे च अस्त्वस्य वेधा इत्यादावप्रत्यये प्रत्यये च सत्त्वेन प्रत्ययमात्रवृत्तित्वाभावेन तत्पुरस्कारेण दीर्घ क्रियमाणे प्रत्ययलक्षणासम्भवादिति भावः / एतत्सर्वं प्रत्ययलक्षणसूत्रभाष्यकैयटादिषु स्पष्टम् / नच सुदृषत्प्रासाद इत्यत्र जसो लुका लुप्तत्वात् 'न लुमता' इति निषेधादेव दीर्घा न भविध्यतीति वाच्यम् / दीर्घस्यासन्तकार्यत्वेन जसि परे अङ्गकार्यत्वाभावादित्यलम् / ननु उक्तरीत्या प्रत्ययलक्षणाभावात् लुप्तयङन्तात् ङित्त्वप्रयुक्तमात्मनेपदं मास्तु / ये तावत् स्पर्धादयः अनुदात्तेतः ये च शीङादयो डितः पठिताः तेभ्यः आत्मनेपदं दुर्वारमित्यत आह / येऽपीति // तेभ्योऽपि नेति // तेभ्यो यङ्लुकि नात्मनेपदमित्यर्थः / कुत इत्यत आह / अनुदात्तङित इत्यनुबन्धनिर्देशादिति // नन्वनुबन्धनिर्देशेऽपि यङ्लुकि आत्मनेपदं कुतो न स्यादित्यत आह / तत्र च शितपेति // न चानुबन्धनिर्देशादेव ङित्त्वप्रयुक्तमपि कार्यमात्मनेपदं यङ्लुकि न भविष्य ते / अतः प्रत्ययासाधारणधर्माश्रयत्वे सत्येव प्रत्ययलक्षणमिति क्लेशानुभवो वृधेति वाच्यम् / यङो डकारस्य प्रत्ययानुबन्धत्वेन यङन्तस्य धातो. रनुबन्धेनानिर्देशादित्यलम् / अत एवेति // “श्तिपा शपा” इति निषेधादेव यङ्लुकि श्यन्नादयो विकरणा नेत्यर्थः / “श्तिपा शपा" इति निषेधमुपपादयति / गणेन निर्देशादिति // 'दिवादिभ्यः श्यन्' 'रुधादिभ्यः श्नम्' इत्यादिगणनिर्देशादित्यर्थः / किंतु शबेवेति // ‘कर्तरि शप्' इत्यत्र “श्तिपा शपा" इति निषेधाविषयत्वादिति भावः / चर्करीतमिति // For Private And Personal Use Only