________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 सिद्धान्तकौमुदीसहिता [चुरादि रुज 1805 हिंसायाम् / ष्वद 1806 आस्वादने / 'स्वाद' इत्येके / असिष्वदत् / दीर्घस्य त्वषोपदेशत्वात् असिस्वदत् / __‘आ धृषाद्वा' (ग सू 202) / इत ऊर्ध्व विभाषितणिचो धृषधातुमभिव्याप्य / युज 1807 पृच 1808 संयमने / योजयति-योजति / अयोक्षीत् / पर्चयति-पर्चति / पर्चिता / अपर्चीत् / अर्च 1809 पूजायाम् / षह 1810 मर्षणे / साहयति स एवायं नागः सहति कलभेभ्यः परिभवम्' ईर 1811 क्षेपे / ली 1812 द्रवीकरणे / लाययति--लयति / लेता / वृजी 1813 वर्जने / वर्जयति-वर्जति / वृञ् 1814 आवरणे / वारयतिवरति--वरते / वरिता-वरीता / ज 1815 वयोहानौ / जारयति-जरति / जरिता जरीता / जि 1816 च / नाययति-ज्रयति / वेता / रिच 1817 वियोजनसम्पर्चनयोः / रेचयति-रेचति / रेक्ता / शिष 1818 असर्वोपयोगे / शेषयति-शेषति / शेष्टा / अशिक्षत् / अयं विपूर्वोऽतिशये / तप 1819 दाहे / तापयति-तपति / तप्ता / तृप 1820 तृप्तौ / 'सन्दीपने' इत्येके। धायेति // अण्यन्तात् त्वायामिनिषेधार्थमीदित्त्वम् / ण्यन्तात्तु णिचा व्यवधानादप्रसक्तेः / अतो णिज्विकल्पो विज्ञायते इत्यर्थः / स्वदधातुः षोपदेशः / तदाह / असिष्वदिति // आदेशसकारत्वात्षः / अभ्यासेकारस्य संयोगपरकत्वेन गुरुत्वान्नाभ्यासदीर्घः / दीर्घस्य त्विति // दीर्घमध्यस्य त्वित्यर्थः। अषोपदेशत्वादिति // ह्रस्वमध्यस्यैव स्वदेः षोपदेशेषु परिगणनादिति भावः / इत्यास्वदीयाः। आधृषाद्वेति // गणसूत्रम् / विभाषितणिचः इति // विकल्पितणिच्काः प्रत्येतव्या इत्यर्थः / आङभिव्याप्ताविति मत्वा आह। धृषधातुमभिव्याप्येति॥ णिजभावपक्षे आह। अयोक्षीदिति / अर्च पूजायामिति // अयमनुदात्तेदिति शाकटायनः। अर्चयते / अर्चते / अस्य भ्वादौ पाठः अनार्षः / अनेनैव सिद्धेः / नच परस्मैपदार्थ भ्वादावर्चेः पाठ इति वाच्यम् / भ्वादौ तस्याप्यात्मनेपदीयतायाश्शाकटायनसम्मतत्वेन माधवोक्तेः / एवमत्रत्यानामाधृषीयाणां भ्वादौ परस्मैपदिषु पाठः प्रामादिक एवेत्याहुः / ली द्रवीकरणे / लाययतीति // लीलोरिति नुक् तु न / लासाहचर्यात् हे तुमण्णावेवास्य प्रवृत्तेः / लेतेति // विभाषा लीयतेः इत्यात्त्वन्तु न। तत्र नाश्यन्विकरणयोरेव यका निर्देश इति भाष्यात् / वृञ् आवरणे / वरिता-वरीतेति // 'वृतो वा' इति दीर्घः / आशीर्लिङि ब्रियात् / आत्मनेपदे तु ‘लिङ्सिचोः' इति वेट् / वृषीष्ट-वरिषीष्ट। इडभावपक्षे उश्चेति कित्त्वान्न गुण: / 'न लिङि' इति इटो न दीर्घः / अवृत। नि चेति॥ ह्रस्वान्तोऽयम् / रिच वियोजने इति // अनिडयम् / ततश्च णिजभावपक्षे नेट / तदाह / रेक्तेति / शिष असर्वेति // अयमप्यनिट् / तदाह / शेष्टेति / अशिक्षदिति // शल इगुपधादिति क्सः / अयं विपूर्वो अतिशये इति // वर्तत इति शेषः / अयमस्माद्विशिष्ट इत्यत्र अधिक इति गम्यते / तृप तृप्ताविति // अनिट्सु For Private And Personal Use Only