________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमा [भ्वादि 2168 / सार्वधातुकार्धधातुकयोः / (7-3-84) अनयोः परयोरिहाङ्गस्य गुणः स्यात् / अवादेशः / भवति / भवतः / 2169 / झोऽन्तः / (7-1-3) प्रत्ययावयवस्य झस्यान्तादेश: स्यात् / ' अतो गुणे' (191) / भवन्ति / भवसि / भवथः भवथ / 2170 / अतो दी| यञि। (7-3-101) अतोऽङ्गस्य दीर्घः स्याद्यबादौ सार्वधातुके परे / भवामि / भवावः / भवामः / स भवति / तौ भवतः / ते भवन्ति / त्वं भवसि / युवां भवथः / यूयं भवथ। तुक इत्यनुवर्तते। धातोरेकाचो हलादेरित्यस्माद्धातोरिति। तदाह / कर्बर्थ इत्यादिना॥तिङि परे धातोर्विहितानां प्रत्ययानां शबादीनां विकरणसंज्ञा प्राचीनाचार्यसिद्धा। शपाविताविति॥ शकारपकारौ लशक्वतद्धित इति हलन्त्यमिति चेत्संज्ञकावित्यर्थः / ततश्च शपि शकारपकारयोः लोपे अकारमात्र शिष्यत इत्यर्थः। भू अति इति स्थिते। सार्वधातुक इति // इको गुणवृद्धी इति परिभाषया इक इत्युपस्थितेन अङ्गस्येत्यधिकृतं विशेष्यते। तदन्तविधिः / मिदेगुण इत्यस्मात् गुण इत्यनुवर्तते तदाह / अनयोरित्यादिना // तथा च ऊकारस्य गुण: ओकारः। अवादेश इति ॥ओकारस्येति शेषः / तथा च परिनिष्ठितं रूपमाह / भवतीति / भवत इति॥ कर्तृद्वित्वविवक्षायां भू धातोर्लट: तसादेशे शपि गुणे अवादेशे सकारस्य रुत्वविसर्गाविति भावः / कर्तृबहुत्वविवक्षायां भूधातोर्लटः झि इत्यादेशे शपि गुणे अवादेशे च कृते। झोन्त इति // झः अन्तः इति छेदः। झ इति षष्ठयन्तम्। आदेशे तकारात् अकार उच्चारणार्थः / आयनेयी इति सूत्रात् प्रत्ययग्रहणमनुवर्तते / नत्वादिग्रहणमपि। अस्वरितत्वात् / अनुवृत्तं च प्रत्ययग्रहणमवयवषष्ठयन्तमाश्रीयते / तदाह / प्रत्ययावयव स्येति। झस्य झकारस्येत्यर्थः। अन्तादेशः स्यादिति ॥अन्त इत्ययमादेशः स्यादित्यर्थः / प्रत्ययावयवस्येति किम् / उज्झिता। अत्र धात्ववयवस्य झकारस्य न भवति। आदिग्रहणानुवृत्ती तु शयान्तै इति न सिद्धयति। अन्तादेशात्प्रागेवान्तरङ्गत्वाल्लेटोऽडाटावित्याटिकृते झकारस्य प्रत्ययादित्वाभावात् इति भाष्ये स्पष्टम् / एवञ्च भव झि इत्यत्र झकारस्य अन्त इत्यादेशे भव अन्ति इति स्थिते अतो गुण इति द्वयोरकारयोस्सवर्णदीर्घापवादे पररूपे कृते भवन्तीति रूपमित्यर्थः। अन्तादेशे प्रथमाकारोच्चारणन्तु लुग्विकरणे द्विषन्तीत्यादी अकारश्रवणार्थम् / भवसीति // मद्धयमपुरुषैकवचने सिपि शपि गुणे अवादेशे रूपम् / भवथ इति // मध्यमपुरुषद्विवचने थसि शपि गुणे अवादेशे रुत्त्वविसर्गयोश्च रूपम् / न विभक्तौ तु स्मा इति सस्य नेत्वम्। भवथेति॥मद्धयमपुरुषबहुवचने थादेशे शपि गुणे अवादेशे रूपम् / उत्तमपुरुषैकवचनेऽपि शपि गुणे अवादेशे भवमि इति स्थिते। अतो दीर्घ इति // अङ्गस्येत्यधिकृतम् अता विशेष्यते। तदन्तविधिः / तुरुस्तुशम्यम इत्यतस्सार्वधातुक इत्यनुवृत्तम् याविशेष्यते / तदादि विधिः / तदाह / अदन्तस्येत्यादिना / For Private And Personal Use Only