________________
Shri Mahavir Jain Aradhana Kendra
अवंती०
॥ ६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मोहस्तरुणप्ररोहः || २ || जानामि क्षणभंगुरं जगदिदं जानामि तुच्छं सुखं । जानामींद्रियवर्ग मेतमखिलं स्वार्थे कनिष्टं सदा । जानामि स्फुरिताचिरद्युतिचलं विस्फुर्जितं संपदां । नो जानामि तथापि कः पुनरसौ मोहस्य हेतुर्मम || ३ || एवनिभवाद् वैराग्यपरोऽपि नलिनीगुल्मविमानसुखाधिगमेच्छया सवंसीसुकुमालो निजप्रासादात्तत्कालमुनीर्य श्री आर्य सुहस्तिगुरोः पार्श्वे समाययौ तत्र भक्तिपूर्वकं गुरुन्नमस्कृत्य स पप्रच्छ, हे भगवन् ! यूयं किमधुनैव नलिनीगुल्मविमानादत्र समायाताः ? येन श्री पूज्यैस्तत्रत्यं सकलं स्वरूपं कथ्यमानमस्ति तत् श्रुत्वा गुरुभिः प्रोकं भो महाभाग ! वयमधुना तत्र विमाने न गताः स्मः, इदानीमस्माभिस्तद्विमानं लोचनाभ्यामपि दृष्टं नस्ति. किंतु श्रीभगवता सिद्धांतोक्तं श्रीनलिनीगुल्मविमानस्वरूपपाठं वयमधुना गुणयामः किंच तस्मिन् विमाने ये देवाः समुत्पद्यते, तेऽतोवसुखानि विलसंति तत् श्रुत्वा सोऽवनीसुकुमालो गुरुन् प्रति जगो, हे भगवन् ! जातिस्मरणज्ञानतोऽहंजानामि यत् पूर्वभवेऽहं तत्रैव विमाने सुरतया समुत्पन्नोऽभवं आयुःक्षये च ततश्च्युत्वाहमत्र मनुष्यलोके समुत्पन्नोऽस्मि अथ तद्विमानसुखस्मरणादहमल मनुष्यलोके स्थातुं नेच्छामि, अथैतां मदोयललनाथे
For Private and Personal Use Only
चरित्रम
॥ ६ ॥