________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4
CR
%- NCREC%
विविधेषु समारुह्य, वाहनेष्वथ नागराः । अनुजग्मुर्महीनाथं, बन्दितुं जिननायकम् ॥७३॥ मतिविनिर्जितचित्रशिखण्डिजाः, प्रबरवेषभृतो नृपमन्त्रिणः। शिरसि दत्तशुभातपवारणाः, प्रययुरग्यसुखासनसंस्थिताः
॥ ७४॥ बलात्तुरङ्गमारूढा,-स्तरुणाः श्रावकाङ्गजाः। रेवन्तमनुकुवन्तः, प्रचेलुश्चलकुण्डलाः ॥७५॥ शीघ्रगेषु करभेष्वधिरुया,-लकृतेषु बहुशो बहुमानात् । तीर्थनाथमभिवन्दितुमुच्चैः, केचनापि ययुरुच्वसिताङ्गाः
॥ ७६॥ केचित्त्यक्तगृहारम्भाः, कृतस्नानाः सितांशुकाः। श्रावकाः पादचारेण, चेलुः पुष्पादिपाणयः॥ ७७ ॥ आच्छादनोपेतसुखासनान्त:-स्थिता नृपान्तःपुरिकाश्च काश्चित । उत्पत्तिपर्यङ्कगताऽमरीणां, लीलां वहन्त्यः प्रययुर्वनाय
॥ ७८ ॥ याप्ययानसमारूढा, धनिनां काश्चनाङ्गनाः । विद्याधर्य इव व्योम,-यानस्थावरमीयिरे ॥ ७९ ॥ पुरकुरङ्गादृशः पतिभिः समं, समभिरुह्य स्थानरुणांशुकाः। कनकतोदनकेन तुरङ्गमा,-नुपवनं प्रति तैः समचालयन्
॥८ ॥ किमप्सरस ईदृशानुगमरूपसम्पभृतः, किमङ्ग! पुरदेवताः प्रकटितस्वरूपा इमाः । अमूल(ल)वणिमार्णवः (वा.) किम(मु)सुराधिपत्यङ्गना,-स्तदेति हृदि काश्चन प्रकृतसंशयाः प्राणिनाम् ॥८१ ॥
8C-
%
% A
OSORRORSCORE
4
%
For Private And Personal Use Only