SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 636= www.kobatirth.org सर्वत्र गम्यते । नाप्रेरितो यतः कश्चिन्नियुक्तं स्वं प्रबुध्यते ॥ २ ॥ प्रेरणासहितं कार्यं नियोग इति केचिन्मन्यन्ते (३) ॥ ममेदं कार्यमित्येवं ज्ञातं पूर्वं यदा भवेत् । खसिद्धौ प्रेरकं तत्स्यादन्यथा तन्न सिद्ध्यति || ३ || कार्यसहिता प्रेरणा नियोग इत्यपरे (४) । प्रेते पुरुषो नैव, कार्येणेह विना कचित् । ततश्च प्रेरणा प्रोक्ता, नियोगः कार्यसङ्गता ॥ ४ ॥ कार्यस्यैवोपचारतः प्रवर्त्तकत्वं नियोग इत्यन्ये ( ५ ) ॥ प्रेरणाविषयः कार्यं, न तु तत्प्रेरकं स्वतः । व्यापारस्तु प्रमाणस्य, प्रमेय उपचर्यते ||५|| कार्यप्रेरणयोः सम्बन्धो नियोग इत्यपरे (६) || प्रेरणा हि विना कार्य, प्रेरिका नैव कस्यचित् । कार्यं वा प्रेरणायोगो, नियोगस्तेन सम्मतः ॥ ६ ॥ तत्समुदायो नियोग इति चापरे (७) ॥ परस्पराविनाभूतं द्वयमेतत्प्रतीयते । नियोगः समुदायोऽस्मात्, कार्यप्रेरणयोर्मतः ||७|| तदुभयस्वभाव विनिर्मुक्तो नियोग इति चान्ये (८) ॥ सिद्धमेकं यतो ब्रह्म-गतमाम्नायतः सदा । सिद्धत्वेन न तत्कार्य, प्रेरकं कुत एव तत् ||८|| यन्त्रारूढो नियोग इति कश्चित् (९) ॥ कामी यत्रैव यः कश्चिन्नियोगे सति तत्र सः । विषयारूढमात्मानं मन्यमानः प्रवर्त्तते ॥९॥ भोग्यरूपो नियोग इत्यपरः (१०) । ममेदं भोग्यमित्येवं, भोग्यरूपं प्रतीयते । ममत्वेन च विज्ञानं, भोक्तर्येव व्यवस्थितम् ||१०|| स्वामित्वेनाभिमानो हि भोक्तुर्यत्र भवेदयम् । भोग्यं तदेव विज्ञेयं, तदेवं स्वं निरुच्यते ॥ ११॥ साध्यरूपतया येन, ममेदमिति गम्यते । तत्प्रसाध्येन रूपेण, भोग्यं स्वं व्यपदिश्यते ॥ १२॥ सिद्धरूपं हि यद्भोग्यं, न नियोगः स तावता । साध्यत्वेनेह भोग्यस्य प्रेरकत्वान्नियोगता ॥ १३॥ पुरुष एव नियोग इत्यन्यः (११)॥ ममेदं कार्यमित्येवं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy