________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्री विवरणम्॥
॥१०॥
परिच्छेदः प्रथमः॥
निश्रितत्वस्य स्वजनितप्रमाहितक्षयोपशमसाचिव्येन सिद्धेः, अत एव नैयायिकैकदेशिनोऽपि तत्र साक्षात्कारित्वग्रहे क्षणविलम्ब कल्पयन्ति, तादृशसामग्रीद्वितीयक्षणेऽनुमित्युत्पत्त्याऽनन्तरं सिद्धिप्रतिबन्धादनुमित्यन्तरानुत्पादेन तृतीयक्षणे प्रत्यक्षोत्पादात् तत्र साक्षात्कारित्वग्रहोपपत्तेः । एवं हि भिन्नविषयस्थलीयप्रतिवध्यप्रतिबन्धकभावेनैव निर्वाहेऽनुमितौ प्रत्यक्षसामय्या अतिरितप्रतिबध्यप्रतिबन्धकमावाकल्पनलाघवम् , सम्प्रदायविदा हि भिन्ने विषये वह्वयनुमित्साविशिष्टवयनुमितिसामग्रीसत्त्वे घटप्रत्यक्षेच्छाविशिष्टघटप्रत्यक्षसामग्रीसचे च वह्वयनुमितेरेवोत्पत्त्या तत्र घटप्रत्यक्षत्वावच्छिन्नं प्रति भिन्नविषयकानुमित्यन्यज्ञानत्वावच्छिन्नं प्रति वा वह्नयनुमित्साविशिष्टवह्नयनुमितिसामग्र्याः प्रतिबन्धकत्वं समाने च विषये वह्निप्रत्यक्षेच्छाविशिष्टवहिप्रत्यक्षसामग्रीकाले वड्यनुमित्साविशिष्टवह्नयनुमितिसामग्रीदशायां वह्नयनुमित्यापत्तिवारणाय वह्वयनुमिति प्रति वहिप्रत्यक्षेच्छाविशिष्टवह्निप्रत्यक्षसामग्र्याः प्रतिबन्धकत्वं कल्पनीयम् , अस्माकं तु प्रत्यक्षत्वावच्छिन्नं प्रत्यनुमित्यन्यज्ञानत्वावच्छिन्नं प्रति वाऽनुमित्साविशिष्टानुमितिसामग्र्या एकमेव प्रतिबन्धकत्वमिति भिन्नविषयत्वानिवेशद्वितीयप्रतिबन्धकत्वाकल्पनाभ्यां लाघवस्य स्फुटत्वात् । न च वह्वयनुमितिसामग्रीप्रतिबध्यतावच्छेदककोटौ वह्निभिन्नविषयकत्वानिवेशे समानविषये स्वस्वेच्छाविशिष्टवयनुमितिशादसामग्रीद्वयसमाजे वह्निशाद्वस्यैवोत्पत्तेरनुमित्यन्यज्ञानेऽनुमितिसामग्र्याः प्रतिबन्धकत्वे व्यभिचार इति शङ्कनीयम्, तत्रानुमितिसामग्यपेक्षया प्रत्यक्षसामय्या इव शादसामग्र्या अपि दुर्बलत्वस्वीकारात्, तथापि द्वितीयप्रतिबन्धकत्वाकल्पनप्रयुक्तं लाघवमयुक्तम् , समाने विषये शादसामय्यपेक्षया प्रत्यक्षसामग्र्या बलवच्चात्, पर्वतो वह्निमानिति शादबुद्धौ वहिप्रत्यक्षेच्छाविशिष्टवह्निप्रत्यक्षसामग्र्याः प्रतिबन्धकत्वे कल्पनीये तत्रैवानुमित्यादिसाधारणप्रत्यक्षान्यवहिज्ञानत्वस्य प्रतिबध्य
For Private And Personal Use Only