________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥
परिच्छेदः | प्रथमः॥
॥९॥
*****S
कल्पकासत्रहः, अनुमित्साविशिष्टानुमितिसामग्रीकाले वहिवाहित्वादिनिर्विकल्पकानङ्गीकारे च नानुपपत्तिः, न च तथाऽप्यनुमित्साविशिष्टानुमितिसामग्रीकाले पर्वतो वहिमानित्युपनीतभानापत्तिः, वहिनिष्ठलौकिकविषयतानिरूपितपर्वतविशेष्यताभिन्नमुख्यविशेष्यतानिवेशे च पर्वतो वह्निमानिति शाढे व्यभिचारो दुर्वार इति वाच्यम्, तथाविधोपनीतभानं प्रत्यप्यनुमित्साविशिष्टानुमितिसामग्र्याः स्वातन्त्र्येण प्रतिबन्धकत्वान्तरकल्पनात् । केचित्तु पर्वतो वहिमानिति लौकिकप्रत्यक्षे व्यभिचारवारणायानुमित्साविशिष्टानुमितिसामग्रीप्रतिबध्यतावच्छेदकं पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवद्वित्वावच्छिन्नप्रकारताशून्यज्ञानत्वमेव वाच्यम्, इत्थमनुमित्यन्यत्वाप्रवेशे पूर्वमतापेक्षया लाघवाद्ववचनुमित्साविशिष्टवड्यनुमितिसामग्रीकाले घटानुमितिसामग्रीसच्चे वहिघटोभयसमूहालम्बनानुमित्युदयाभ्युपगमेन तत्र व्यभिचाराभावात् , तथाविधानुमितिसामग्रीकाले वहिप्रत्यक्षेच्छाविशिष्टवहिप्रत्यक्षसामय्यां घटप्रत्यक्षसामग्र्यां च सत्यां पर्वतो वह्निमान् घटवांश्चेति समूहालम्बनप्रत्यक्षस्य च तदानुमित्यनुदयेन ज्ञानायौगपद्यार्थमभ्युपगमादित्याहुः, तन्न, अनुमित्साविशिष्टानुमितिसामग्र्यभावदशायां पर्वतो वह्निमान् घटवांश्चेति समूहालम्बनात्मकप्रत्यक्षसामग्रीकाले विरोधिसामय्यभावरूपकारणबलात् पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्नित्वावच्छिन्नप्रकारताशून्यज्ञानत्वावच्छिन्नापत्तेर्दुरित्वात् वहिप्रत्यक्षसामग्र्यादेस्तत्र प्रतिबन्धकत्वकल्पने च गौरवात्, पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्नित्वावच्छिन्नविधेयताभिन्न विधेयताया एवानुमित्साविशिष्टानुमितिसामग्रीप्रतिवध्यतावच्छेदकत्वम् , विधेयत्वं चोद्देश्यतावच्छेदकविधेयतावच्छेदकव्यावृत्तविलक्षणविषयत्वमित्यपरे, तदपि न, प्रत्यक्षादिसाधारणविधेयत्वाख्यविलक्षणविषयतायां प्रमाणाभावात , एवं वह्वयनुमितिसामग्रीकाले घटादिप्रत्यक्षेच्छाविशिष्टघटादिप्रत्यक्षसामग्रीदशायामनुमित्यनुदयेन
1564545455152519
HARE
॥९॥
For Private And Personal Use Only