________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
बष्टसहस्री
विवरणम् ॥
परिच्छेदः प्रथमः॥
॥७॥
वतिलौकिकप्रत्यक्षसामग्रीसच्चे घटानुमित्सयाऽपि वयनुमित्युत्पादापत्तेः, नापि पर्वतोद्देश्यकवविविधेयकानुमितिविषयकेच्छा| त्वेन, घटानुमित्साया अपि पर्वतोद्देश्यकवविघटोभयविधेयकसम्हालम्बनानुमितिविषयकत्वेनोक्तदोषानुद्धारात् , नापि पर्वतोद्दे| श्यकत्वप्रकारतानिरूपितवतिविधेयकत्वत्वावच्छिन्नप्रकारताभिन्नयत्किञ्चिद्विधेयकत्वप्रकारत्वानिरूपितानुमितिनिष्ठविशेष्यताशा-| लीच्छात्वेन, तथापि पर्वतोद्देश्यकघटप्रकारकानुमितिर्जायतामितीच्छासत्त्वे वहिप्रत्यक्षसामग्रीसचे वड्यनुमित्यापत्तेः, तादृशेच्छाया उक्तधर्माक्रान्तत्वादिति चेत् , उच्यते-पर्वतोद्देश्यकवह्निविधेयकानुमिति प्रति पर्वतत्वावच्छिन्नोद्देश्यकत्वप्रकारतानिरूपितवहिविधेयकत्वप्रकारताभिन्नयत्किञ्चिद्विधेयकत्वप्रकारत्वानिरूपितत्वे सति या पर्वतविशेष्यकत्वप्रकारतानिरूपितवनिप्रकारकत्वप्रकारताभिन्नयत्किञ्चित्प्रकारकत्वप्रकारत्वानिरूपिताऽनुमितिनिष्ठविशेष्यता तच्छालीच्छाभावविशिष्टवाहिलौकिकप्रत्यक्षसामग्रीत्वेन प्रतिबन्धकत्वकल्पनान्न दोषः। एवमिच्छान्तरसङ्ग्रहायेच्छीयामितिनिष्ठविशेष्यतायां विशेषणान्तरमपि विचिन्त्य सुधीभिदेयम् , ज्ञानं जायतामितीच्छावारणायानुमितिनिष्ठविशेष्यतायां प्रत्यक्षावृत्तिधर्मनिष्ठप्रकारतानिरूपितत्वं निवेश्यम्, न त्वनुमितिमात्रवृत्तिधर्मनिष्ठप्रकारतानिरूपितत्वम् , प्रत्यक्षान्यज्ञानं जायतामितीच्छासत्त्वेऽनुमित्यनुत्पादापत्तेरित्याहुः, तत्र ब्रूमः, एवमनन्तानुमित्साविरहविशिष्टतत्तल्लौकिकप्रत्यक्षसामग्रीणामनन्ताभावानामनुमितिहेतुत्वे गौरवात्तावदन्यतमत्वावच्छिन्नाभावस्याखण्डस्य हेतुत्वे वाच्ये तत्स्थानाभिषिक्ताखण्डानुमानोपयोगस्यैवानुमितिहेतुत्वौचित्यात् , तदभावादेव न पर्वते वहिलौकिकप्रत्यक्षसामग्रीकाले वह्नयनुमितिः, किश्च पर्वतचक्षुःसंयोगविशिष्टवह्निचक्षुःसंयोगस्य नोक्तसामग्रीत्वं प्रतिबन्धकतावच्छेदकसम्बन्धगौरवादिति तद्विशिष्टात्ममनःसंयोगस्यैव त्वया तत्त्वं वाच्यम् , तदपेक्षयापि लाघवाद्विशिष्टात्मन एव तत्त्वमुचितं, सच प्रत्यक्षोपयोग
|
॥७॥
For Private And Personal Use Only