________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।।
॥३६०॥
www.kobatirth.org
द्रव्यार्थिकपर्यायार्थिकप्रविभागवशान्नैगमादयः शब्दार्थनया बहुविकल्पा मूलनयद्वयशुद्ध्यशुद्धिभ्यां शास्त्रान्तरे प्रोक्ता इति संबन्ध: । द्रव्यार्थिकप्रविभागाद्धि नैगमसंग्रहव्यवहाराः, पर्यायार्थिकप्रविभागादृजुसूत्रादयः । तत्र ऋजुसूत्रपर्यन्ताश्चत्वारोर्थनया:, तेषामर्थप्रधानत्वात् शेषास्त्रयः शब्दनयाः शब्दप्रधानत्वात् । तत्र मूलनयस्य द्रव्यार्थिकस्य शुद्ध्या संग्रहः, सकलोपाधिरहितत्वेन शुद्धस्य सन्माचस्य विषयीकरणात् सम्यगेकत्वेन सर्वस्य संग्रहणात् । तस्यैवा शुद्ध्या व्यवहारः, संग्रहगृहीतानामर्थानां विधिपूर्वकत्वव्यवहणात्, द्रव्यत्वादिविशेषणतया स्वतोऽशुद्धस्य स्वीकरणात्, यत्सत्तद्रव्यं गुणो वेत्यादिवत् । एवं नैगमोप्यशुद्धा प्रवर्तते, सोपाधिवस्तुविषयत्वात् । स हि त्रेधा प्रवर्तते, द्रव्ययोः पर्याययोर्द्रव्यपर्याययोर्वा गुणप्रधानभावेन विवक्षायां नैगमत्वात्, नैकं गमो नैगम इति निर्वचनात् । तत्र द्रव्यनैगमो द्वेधा-शुद्धद्रव्यनैगमोऽशुद्धद्रव्यनैगमश्चेति । पर्यायनैगमस्त्रेधा अर्थ पर्याययोर्व्यञ्जनपर्याययोरर्थव्यञ्जन पर्याययोश्च नैगम इति । अर्थपर्यायनैगमस्त्रेधा ज्ञानार्थपर्याययोर्ज्ञेयार्थपर्याययोर्ज्ञानज्ञेयार्थपर्याययोश्चेति । व्यञ्जनपर्यायनैगमः षोढा - शब्दव्यञ्जनपर्याययोः समभिरूढव्यञ्जनपर्याययोरेवंभूतव्यञ्जनपर्याययोः शब्दसमभिरूढव्यञ्जनपर्याययोः शब्देवंभूतव्यञ्जनपर्याययोः समभिरूढैवंभूतव्यञ्जनपर्याययोश्चेति । अर्थव्यञ्जनपर्यायनैगमस्त्रेधा ऋजुसूत्रशब्दयोः, ऋजुसूत्र समभिरूढयोः ऋजुसूत्रैवंभूतयोश्चेति । द्रव्यपर्यायनैगमोष्टधा, शुद्धद्रव्यर्जुसूत्रयोः शुद्धद्रव्यशब्दयोः शुद्धद्रव्यसमभिरूढयोः शुद्धद्रव्यैवंभूतयोश्च एवमशुद्धद्रव्यर्जुसूत्रयोरशुद्धद्रव्यशब्दयोरशुद्धद्रव्यसमभिरूढयोरशुद्धद्रव्यैवंभूतयोश्चेति । लोकसमयाविरोधेनोदाहार्यम् । तथा पर्यायार्थिकस्य मूलनयस्याशुद्ध्या तावदृजुसूत्रः, तस्य कालकारकलिङ्गभेदेनाप्यभेदात् । शुध्या शब्दस्तस्य कालादिभेदेन भेदात् । शुद्धितरया सममिरूढस्तस्य पर्यायभेदेनापि भेदात् । शुद्धितमयैवंभूतस्तस्य क्रियाभेदेनापि भेदात् ॥ इति मूलनयद्वयशुद्धथशुद्धिभ्यां बहुविकल्पा नया नयचक्रतः प्रतिपत्तव्याः । पूर्वपूर्वा महाविषया
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः दशमः ॥
॥३६०॥