________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शृङ्गाभावशाब्दबोधे पदार्थयोः संसर्गाभावनिश्चयोऽनुगुण एव, अन्यथा विशिष्टनिषेधप्रतीतावंशतो भ्रमत्वापत्तेः, गालिप्रदा-1 नादितोऽपि शाब्दबोधश्चेत् , आहार्य एव, नो चेद् , दुष्टवक्त्रभिप्रायसूचकत्वेनैव तस्य क्रोधजनकत्वम् , सत्यादित्वं वाचां जनपदसत्याद्यन्यतरत्वेनैव, द्रव्यभावभाषात्वं च तासां चतुर्विधद्रव्यपरिणतिमाश्रित्य, श्रुतभावभाषात्वं च तिसृणां फलीभूतश्रुतोपयोगापेक्षया मिश्रोपयोगाभावेन तृतीयस्या अत्रानधिकारात् , चारित्रभावभाषात्वं च प्रथमान्तिमयोरेव यत्याचारविहितत्वेन चारित्रोत्कर्षकत्वादित्यादिविस्तरो भाषारहस्ये इति कृतं प्रसङ्गेन । प्रकृतं प्रस्तुमः-न पुनराख्यातशब्द इत्यादि,8 शेषपक्षनिराकरणं प्रायः सुगमम् । क्रियास्फोटवदिति पूर्वापरीभूतावयवास्वाश्रितक्रमासु क्रियास्वेकः क्रियास्फोटो यथा | नास्ति तथा क्रमवत्पदसमुदाये वाक्यस्फोटोऽपि, एकत्वप्रतीतेव्यप्रत्यासत्यवोपपत्तेरिति । यथोक्तपदानुसंहृतिरूपस्येति परस्परापेक्षनिरपेक्षपदानुस्मरणरूपस्येत्यर्थः । बुद्धिर्मानस्युत्प्रेक्षानुसंहतिः स्मरणमित्यनयोः पक्षयोर्भेदः। तावतोदाहरणोपनयमात्रेण, अर्थ प्रत्येति प्रकृतसाध्यं निश्चिनोति, किमितीति शेषं निगमनं, किमित्याकाङ्क्षति-साधनमात्रेणार्थसिद्धौ तत्रेष्टसाधनताज्ञानाभावेनाकाक्षाभावात् यस्य च फलीभृतशाब्दबोधेच्छया निगमनशब्द एवाकासा तस्य तच्छब्दाभ्याहारेणैव शाब्दबोध इति भावः। सत्यभामादिपदवदिति यथा भामापदेन सत्यभामापदं स्मयते तथा प्रकरणादिना पदान्तरमिति तत्सापेक्षश्रूयमाणपदसमुदायस्य न निराकासत्त्वव्याघात इति भावः। यत्र च प्रकरणादिनाखिल एव वाक्यार्थो ज्ञायते चेष्टादिना वा, तत्र तादृशवाक्यकल्पनयैव शान्दव्यवहारः सङ्गतिमङ्गति, अत एव न चेष्टादेः प्रमाणान्तरत्वम् , अवश्यकल्प्यशब्दमुखनिरीक्षकत्वादिति दिग् । इत्युक्तः (क्तं) प्रागिति “त्वन्मतामृतबाह्यानाम्" इत्यादिकारिकाव्याख्यानावसरे
ॐॐॐॐॐ
For Private And Personal Use Only