SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersun Gyanmandi अष्टसहस्री विवरणम् ॥ ॥३४९॥ परिच्छेदः दशमः॥ | श्रीसिद्धसेनाचार्याणां मतं, क्रमेणेति पूज्यश्रीजिनभद्रगणिक्षमाश्रमणानां, वृत्तिविशेषात् केवलज्ञान एव दर्शनत्वं परि| भाष्यते, न तु मतिज्ञानादिवदर्शनोपयोगोऽपि ज्ञानात् पृथक्कश्चित् सम्भवति केवलिनः । तदुक्तं, " चक्षुर्वद्विषयाख्याति-वधिज्ञानकेवले ॥ शेषवृत्तिविशेषात्तु, ते मते ज्ञानदर्शने ॥१॥" इति, तस्मात् केवलज्ञानाख्य एव एकोपयोगः केवलिन इति निष्कृष्ट सिद्धसेनाचार्याणामेव मतं, मल्लवादिप्रभृतीनांवा, एतच्च त्रयमपि ऋजुसूत्र-व्यवहार-सङ्ग्रहनयभेदादविरोधेन व्यव| स्थापितमस्माभिर्ज्ञानविन्दौ महता प्रबन्धेनेति व्युत्पत्त्यर्थिनात्रार्थे स एव ग्रन्थोऽनुसन्धेयः। ये तु बालिशा नयभेदेन प्रवृत्ते| ऽप्याचार्यमतभेदे शङ्कान्याकुलितचेतसः शासनमेव निन्दन्ति, तेऽभव्या दूरभव्या वा, अचारित्रिण एव चारित्रप्रतिपत्तिवारित्रिण एव वेत्यादिनयभेदेनाप्येवंजातशासनसंशयसन्निपातस्य भगवद्भिषग्वरेणाप्यप्रतीकार्यत्वापत्तेरिति दिग् । तद्विशेषगतिः उपयोगपदस्य छद्मस्थज्ञानदर्शनोपयोगपरता, अन्यथाऽपि छद्मस्थोपयोगमात्रविषयत्वेनापि, क्वचिदित्यादिर्न मन्तव्यमित्यन्तं पूर्वपक्षग्रन्थः, चक्षुरादीत्यादि भाष्यमुत्तरग्रन्थः । सन्तानभेदाद्रूपज्ञानस्य ज्ञानसन्तानादिभेदात् , परस्परपरामर्शाभावः य एवाहमद्राक्षं स एव स्पृशामीत्यादिप्रत्यभिज्ञाभावः, स्यादिति शेषः । अक्षमनोध्यक्षयोः चक्षुरादिज्ञानमानसज्ञानयोः, विषयस्य ग्राह्यस्य, अनेकान्तात्मकत्वादिति क्रमयुगपद्भावेनेति शेषः । स्याद्वादनयलक्षितं प्रतिपत्तव्यमिति तथा च संस्कृतपदमुपलक्षितपरमित्यर्थः । तयोः नयस्याद्वादयोः, वस्तुतः संस्कृतपदमाहितातिशयार्थमेव, तथा च प्रतिनियतैकार्थावधारणात्मकं यन्मतिज्ञानादि तन्नयसंस्कृत, यच्चानन्तधर्मात्मकत्वेन विषयपरिच्छेदि तत्स्याद्वादसंस्कृतं, आद्य लौकिकं प्रमाणं, परमलौकिकं, नयस्याद्वादार्थप्रतिसन्धानजनितसंस्कारोपनयादेव तयोर्विषयताविशे ॐ454548 ॥३४९॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy