________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः दशमः॥
बष्टसहस्री टा वस्वभावाः प्रतीतिमनुसरन्तो न तर्कगोचरा यतः पर्यनुयुज्यन्ते, तर्कगोचराणामप्यागमगोचरत्वेन पर्यनुयोगप्रसङ्गात् । तद्वत्प्रत्यक्षवि- विवरणम् ॥ षयाणामपि । इति न प्रत्यक्षागमयोः स्वातन्त्र्यमुपपद्यत तर्कवत् । तदनुपपत्तौ च नानुमानस्योदयः स्यात् , धर्मिप्रत्यक्षादेः प्रतिज्ञाय
मानागमार्थस्य च प्रमाणान्तरापेक्षत्वादित्यनवस्थानात् । ततः सूक्तं कर्मबन्धानुरूपत्वेपि कामादिप्रभवस्य भावसंसारस्य द्रव्यादिसंसार॥३४॥
हेतोः प्रतिमुक्तीतरसिद्धिर्जीवानां शुद्ध्यशुद्धिवैचित्र्यादिति ॥१००॥ ननु चोपेयतत्त्वस्य सर्वज्ञत्वादेरुपायतत्त्वस्य ज्ञापककारकविकल्पस्य हेतुवाददैवादेः प्रमाणनयैरेव कात्स्न्यैकदेशतोधिगमः कर्तव्यो नान्यथा तदधिगमोपायान्तराणामत्रैवान्तर्भावात्, " प्रमाणनयैरधिगम" इति वचनात् । तत्र प्रमाणमेव तावद्वक्तव्यं, तत्स्वरूपादिविप्रतिपत्तिसद्भावात् तन्निराकरणमन्तरेण तद्ध्यवसायानुपपत्तेः इति भगवता पृष्टा इवाचार्याः प्राहुः
तयोर्व्यक्ती इति, गुणनिमित्तसाहजिकक्षयोपशमाधीनकार्यप्रादुर्भावपर्यायावित्यर्थः । ननु निक्षेपरूपमुपेयोपायतत्व| ग्राहकमुपायान्तरमस्तीति प्रमाणनयैरेवेत्यवधारणं कुत इत्याशङ्कायामाह-अन्यथेति अन्यप्रकारेण यानि तदधिगमोपाया- | |न्तराणि निक्षेपनिर्देशस्वामित्वादीनि तेषामन्त्रैव प्रमाणनययोरेवान्तर्भावादभिमतानभिमतोपादानत्यागफलोपदेशरूपत्वेन |
तेषां तद्रूपत्वादिति भावः ॥१०॥ टू तत्त्वज्ञानं प्रमाणं ते, युगपत्सर्वभासनम् ॥ क्रमभावि च यज्ज्ञानं, स्याद्वादनयसंस्कृतम् ॥ १०१॥
प्रमाणलक्षणसंख्याविषयविप्रतिपत्तिरनेन व्यवच्छिद्यते। तत्त्वज्ञानं प्रमाणमिति वचनादज्ञानस्य निराकारदर्शनस्य सन्निकर्षादेश्चाप्रमा| णत्वमुक्तं, तस्य स्वार्थाकारप्रमिति प्रति साधकतमत्वानुपपत्तेः, ज्ञानस्यैव स्वार्थाकारव्यवसायात्मनस्तत्र साधकतमत्वात् । न हि स्वार्था
॥३४॥
For Private And Personal Use Only