SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रेणाधिष्ठित इत्यनवस्था स्यात्, अन्यथा स्यात्तेनैवास्य हेतोर्व्यभिचारः । नायं प्रसङ्गो, बुद्धिमत्त्वादिति चेत्, तत एव तर्हि प्रहीणतनुककरणादयः प्राणिनो मा भूवन् । यथैव हि बुद्धिमानीश्वरो नाधिष्टात्रन्तरं चेतनमपेक्षते तथा प्रहीणान् कुब्जादिशरीरकरणादीनपि मास्म करोत् सातिशयं तद्विदः प्रहीणस्वकार्याकरणदर्शनात् । प्रहीणतनुकरणादयः प्राणिनां कर्मणो वैचित्र्यादिति चेत्, तर्हि कर्मणामपि तेषामीश्वरज्ञाननिमित्तत्वे समानप्रसङ्गः, तान्यपि प्रहीणतनुकरणादिकारणानि मा भूवन्निति । तदनिमित्तत्वे तनुकरणादेपि तन्निमित्तस्वं मा भूद्विशेषाभावात् । एवं चार्थक्रियादेरपि ताभ्यामेकान्तिकत्वं कर्मणः स्थाणोश्चार्थक्रियाकारित्व-स्थित्वा प्रवर्तनयोश्चेतनाधिष्ठानाभावेपि भावात् । ततः कर्मबन्धविशेषवशाच्चित्राः कामादयस्ततः कर्मवैचित्र्यमिति स्थितम् । न हि भावस्वभावोपालम्भः करणीयोन्यत्रापि तथैव तत्प्रसङ्गानिवृत्तेः । यथैव हि कथमचेतनः कर्मबन्धः कामादिवैचित्र्यं कुर्यात् कामादिर्वा चेतनस्वभावः कथमचेतनं कर्मवैचित्र्यमिति तत्स्वभावस्योपालम्भः प्रवर्त्यते कथमचेतनमुन्मत्तकादिभोजनमुन्मादादिवैचित्र्यं विदधीत प्राणिनामुन्मादादिव चेतनः कथमचेतनं मृदादि रूपवैचित्र्यमित्यपि तत्स्वरूपोपालम्भः किमिति प्रसज्यमानो निवर्त्यते ? तथादृष्टत्वादिति चेत्, तत एव प्रकृतस्वभावोपालम्भोपि निवर्त्यतां, तथानुमितत्वात् । न चैवमीश्वरस्याप्यनुमितत्वादुपालम्भप्रसङ्गनिवृत्तिः स्यादिति शङ्कनीयं, तदनुमानस्यानेकदोषदुष्टत्वात् । तथा हि तनुकरणभुवनादेः कार्यत्वादिसाधनं किमेकबुद्धिमत्कारणत्वं साधयेदने कबुद्धिमत्कारणत्वं वा ?, प्रथमपक्षे प्रासादादिनानेक सूत्रधारयज मानादिहेतुना तदनैकान्तिकम् । द्वितीयपक्षे सिद्धसाधनं, नानाप्राणिनिमित्तत्वात्तदुप भोग्यतन्वादीनां तेषां तददृष्टकृतत्वात् । एतेन बुद्धिमत्कारणसामान्यसाधने सिद्धसाधनमुक्तं, तदभिमतविशेषस्याधिकरणसिद्धान्तन्यायेनाप्यसिद्धेः । सामान्यविशेषस्य साध्यत्वाददोष इति चेत्, न दृष्टादृष्टविशेषाश्रयसामान्यविकल्पद्वयानतिवृत्तेः दृष्टविशेषाश्रयस्य सामान्य For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy