________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
साध्यसिद्धेरुद्देश्यत्वाचात्र न ध्वनिरूपशब्दे सिद्धसाधनम् , असाधारण्यं त्वनुकूलतर्कसाचिव्यान्न दोष इति भावः । तीति तथा च पक्षतावच्छेदकमात्रस्याहेतुत्वान्न काऽपि दोषाशङ्केति भावः। आश्रयासिद्धिमाशंक्य परिहरति न चेष्टानिष्टेत्यादिना, उक्तहेतौ भागासिद्धिमाशङ्कय परिहरति जीवविपाकिष्वित्यादिना, एवं विशिष्टाज्ञानैकहेतुकत्वे कर्मवन्धस्य च स्थिते सूत्रविरोधमाशङ्कय परिहरति नन्वेवमित्यादिना, संग्रहात् संक्षेपत इति मिथ्यादर्शनादीनां कर्मबन्धविशेषहेतुत्वेऽपि कर्मबन्धसामान्ये द्वादशगुणस्थानसम्भव्यज्ञानस्यैव हेतुत्वकल्पनात्तत्रैव तदन्तर्भावादित्यर्थः । वीतमोहान्मोहरहितात् , भाष्ये बुद्धेरपकर्षात् अपकृष्टबोधात् , मोहनीयपरिक्षयलक्षणात्कषायमोहोदयाभावविशिष्टात् , मोक्षः कैवल्यात्मा जीवन्मोक्षः, विपयये मोहक्षयाभावे बुद्धरपकर्षे, विपर्ययाद् बन्धसम्भवादित्यर्थः। तथा च मोहक्षयविशिष्टज्ञानत्वेन कैवल्यहेतुतैवेत्यर्थः, ॥९८॥
नन्वस्तु मोहप्रकृतिभिः कामादिदोषात्मिकाभिः सहचरितादज्ञानात् पुण्यपापकर्मणोः शुभाशुभफलानुभवननिमित्तयोः प्राणिनां बन्धः । स तु कामादिप्रभवो महेश्वरनिमित्त एवेत्याशङ्कामपाकर्तुमिदमाहुः
कामादिप्रभवश्चित्रः, कर्मबन्धानुरूपतः॥ तच्च कर्म स्वहेतुभ्यो, जीवास्ते शुद्धयशुद्धितः॥९९॥ ____कामादिप्रभवो भावसंसारोयं नैकस्वभावेश्वरकृतस्तत्कार्यसुखदुःखादिवैचित्र्यात् । यस्ए यस्य कार्यवैचित्र्यं तत्तन्नैकस्वभावकारणकृतं, यथानेकशाल्यकुरादिविचित्रकार्य शालिबीजादिकं, सुखदुःखादिकार्यवैचित्र्यं च संसारस्य तस्मानायमेकस्वभावेश्वरकृतः। न तावदयं हेतुरनिश्चितन्यतिरेकत्वादगमकः, साध्याभावेनुपपन्नत्वग्राहकप्रमाणसद्भावात् । न हि कारणस्यैकरूपत्वे कार्यनानात्वं युक्तं, शालिबीजाङ्कुरवत् । प्रसिद्धस्तावदेकस्वरूपाच्छालिबीजादनेकाङ्कुर कार्यायोगः, स एव दृष्टान्तः स्यात् । ततः साध्विदं विपक्षे बाधक
For Private And Personal Use Only