________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
परिच्छेदः
अष्टसहस्री विवरणम्॥ ॥३३॥
दशमः॥
-
ॐ ॐ ॥ अथ दशमः परिच्छेदः॥ ॐ श्रीमदकलङ्कविवृतां, समन्तभद्रोक्तिमत्र संक्षेपात् । परमागमार्थविषया-मष्टसहस्री प्रकाशयति ॥ अज्ञानाच्चे वो बन्धो, ज्ञेयानन्स्यान्न केवली ॥ ज्ञानस्तोकाद्विमोक्षश्चे-दज्ञानाद्बहुतोन्यथा ॥९६॥
प्रसज्यप्रतिषेचे ज्ञानस्याभावोऽज्ञानं, पर्युदासे ततोऽन्यन्मिथ्याज्ञानमज्ञानम्। तत्र यदि ज्ञानाभावाद् ध्रुवोवश्यंभावी बन्धः स्यात्तदा | केवली न कश्चित्स्यात् । सकलविपर्ययरहितं तत्त्वज्ञानमसहायं केवलम् , " एवं तत्त्वाभ्यासा-नास्मि न में नाहमित्यपरिशेषम् । अविप
र्ययाद् विशुद्धं, केवलमुत्पद्यते ज्ञानम् ॥१॥” इति वचनात् । तद्योगात्केवलीत्युच्यते । स कथं न स्यादिति चेत् , तदुत्पत्तेः पूर्वमशेषज्ञानाभावात् , करणजविज्ञानस्यातीन्द्रियार्थाविषयत्वादनुमानस्य चात्यन्तं परोक्षार्थागोचरत्वादागमस्थापि सामान्यतोऽविशेषार्थविषयत्वादयोगिनामशेषविशेषविषयज्ञानविरोधात् । न चाक्षलिङ्गशब्दज्ञानपरिच्छेद्य एवार्थस्ततोऽपरो नास्तीति शक्यं वक्तुं, ज्ञेयस्यानन्त्यात् , प्रकृतिविवर्तविशेषाणां पुरुषाणां चानन्ततोपगमात् । स्यान्मतं,-'प्रकृतिपुरुषविवेकज्ञानादेवागमबलभाविनः स्तोकादपि तत्त्वाभ्यासखात्मभावात् केवलज्ञानभृद्भवेत् । स एव च तस्य विमोक्षः पुनः संसाराभावादनागतबन्धनिरोधात्' इति, तदप्ययुक्तं, स्तोकझानापेक्षया बहोरज्ञानाद्वन्धस्य प्रसङ्गादेष्यद्वन्धरोधासंभवाद् विमोक्षानुपपत्तेः । अथ तत्त्वज्ञानेन स्तोकेनापि बहोरज्ञानस्य प्रतिहतशक्तिकत्वान्न तन्निबन्धनो बन्धः संभवतीति मतं, तदप्यसत्, प्रतिज्ञातविरोधात् । यत् खलु प्रतिज्ञातमज्ञानाद् ध्रुवो बन्ध इति तद्विरुध्यते । अथाखिलज्ञानाभावादज्ञानादवश्यंभावी बन्धो न ज्ञानस्तोकमिश्रणादिति मतं, तदप्यसम्यक् , सर्वदा बन्धाभावप्रसङ्गात्, सर्वस्य
ॐॐ
|॥३३॥
For Private And Personal Use Only