________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कार्यस्य विशुद्धिस्वभावस्य वा विशुद्ध्यङ्गस्य, संकेशकारणस्य संक्लेशकार्यस्य संकेशस्वभावस्य वा संक्लेशाङ्गस्य च सुखस्य दुःखस्य वा तदुभयस्य वा स्वपरोभयस्थस्य पुण्यास्रवहेतुत्वं पापास्रवहेतुत्वं च यथाक्रमं प्रतिपत्तव्यम् । न चान्यथा, यथोदितप्रकारेणातिप्रसङ्गस्येष्टविपरीतेपि पुण्यपापबन्धप्रसङ्गस्य दुर्निवारत्वात् । कः पुनः संक्लेशः का वा विशुद्धिरिति चेदुच्यते, - आर्तरौद्रघ्यानपरिणामः संक्लेशस्तदभावो विशुद्धिरात्मनः स्वात्मन्यवस्थानम् । तत्रार्तध्यानं चतुर्विध, ' आर्तममनोज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारो, विपरीतं मनोज्ञस्य, वेदनायाश्च निदानं चेति सूत्रचतुष्टयेन तथाप्रतिपादनात् । रौद्रध्यानं चतुर्विधं, हिंसादिनिमित्तभेदात् ' हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमित्यत्र सूत्रे प्रकाशनात् । मिध्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ' त एव संक्केशपरिणामा इति न विरुध्येते तेषामार्त रौद्रध्यान परिणामकारणत्वेन संक्केशाङ्गत्ववचनात्, तत्कार्यहिंसादिक्रियावत् । ' कायवाङ्मनःकर्म योगः ' 'स आस्रवः, ' 'शुभः पुण्यस्याशुभः पापस्ये ' त्यपि न विरुद्धं, कायादियोगस्यापि तत्कारणकार्यत्वेन संक्लेशत्वव्यवस्थिते: । एतेन तदभावे विशुद्धिः सम्यग्दर्शनादिहेतुः धर्म्यशुक्रुध्यानस्वभावा तत्कार्यविशुद्धिपरिणामात्मिका च व्याख्याता, तस्यामेवात्मन्यवस्थानसंभवात् । तदेवं विवादाध्यासिताः कायादिक्रियाः स्वपरसुखदुःखहेतवः संक्लेशकारणकार्यस्वभावाः प्राणिनामशुभ फल्पुद्गलसंबन्धहेतवः संक्लेशाङ्गत्वाद्विषभक्षणादिकायादिक्रियावत् । तथा विवादापन्नाः कायादिक्रियाः स्वपरसुखदुःखहेतवो विशुद्धिकारणकार्यस्वरूपाः प्राणिनां शुभफलपुद्गलसंबन्धहेतवो, विशुद्ध्यङ्गत्वात् पथ्याहारादिकायादिक्रियावत् । ये शुभाशुभफलपुद्गलास्ते पुण्यं पापं च कर्मानेकविधम् । इति संक्षेपात्सकलशुभाशुभकर्मास्रवबन्धकारणं सूचितं भवति, विस्तरतस्तस्यास्रवबन्धाध्याये सुनिरूपितत्वात् । ततः स्यात् स्वपरस्थं सुखदुःखं पुण्यास्त्रवहेतुर्विशुद्ध्यङ्गत्वात् । स्यात् पापास्रवहेतु:, संक्केशाङ्गत्वात् । स्यादुभयं क्रमार्पिततद्
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
+%