________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अष्टसहस्री विवरणम्॥ ॥३२७॥
परिच्छेदः नवमः॥
स्यादेवकृतं सर्पमित्यादिसप्तभङ्गीप्रवृत्तिरविरुद्धा, ईदृशविवक्षामहिम्ना स्याद्दण्डजन्यो घटः स्याचक्रजन्य इत्यादि सप्तभङ्गीप्रवृत्तेरपि सम्भवादेकस्वभावेनोमयजन्यत्वविवक्षायामवक्तव्यत्वतद्घटितभङ्गानामपि सावकाशत्वादिति युक्तमुत्पश्यामः । यच्च नियतिद्वात्रिंशिकायां ।। "ज्ञानमव्यभिचारं चे-जिनानां मा श्रमं कृथाः॥ अथ तत्राप्यनेकान्तो, जिताः स्मः किन्तु को भवान् ॥१॥" इति भगवदज्ञानरूपनियत्येकान्तदृढीकरणम् , तदज्ञानज्ञेयपरिणामयोः समनियमप्रतिपादके "जं जहा जं भगवया दिलु, तं तहा तं विपरिणाम (णमइ)" इति परमषिवाक्ये कार्यकारणभावग्राहकत्वाध्यारोपेण नयवचने आहार्यारोपस्यापि निमित्तत्वादित्यागुप(नयोप)देशामृततरङ्गिण्यां प्रपञ्चितमस्माभिः॥ ९१ ॥
दैवं बलीय इति केचन पौरुषं च, केचिद् वदन्ति न तु तुल्यवदाद्रियन्ते ॥
तत्पक्षपातविषमाचलपक्षपात-वज्राभिघातसमतामियमेति युक्तिः॥१॥ इति महोपाध्यायश्रीयशोविजयगणिविरचितेऽष्टसहस्रीतात्पर्यविवरणेऽष्टमः परिच्छेदः॥८॥
____ ॐ ॥ अथ नवमः परिच्छेदः॥ ॐ सम्यगवबोधपूर्व, पौरुषमपसारिताखिलानर्थम् ॥ दैवोपेतमभीष्टं, सर्व संपादयत्याशु ॥१॥ पापं ध्रुवं परे दुःखात्, पुण्यं च सुखतो यदि ॥ अचेतनाकषायौ च, बध्येयातां निमित्ततः॥९२॥
॥३२७॥
For Private And Personal Use Only