________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ह्यलौकिकविषयसहस्रनिवृत्तावपि लौकिकविषयनिवृत्तिस्तन्निरुक्तिनिवृत्तिर्वा सम्भवतीत्यलं प्रसङ्गेन ॥ ८१ ॥ “ यशोविजयनामेत्थं, साधुायविशारदः ॥ स्पष्टं निष्टकयामास, ख्यातीरष्ट गरिष्टधीः ॥१॥ अन्यथाख्याति १ ख्याति २-विवेकाख्यातिरेव च ॥ ३ असतख्यातिः ४ प्रसिद्धार्थाख्याति ५ रेव च पञ्चमी ॥२॥ आत्मख्यातिस्तथा षष्ठी, ख्यातिः सप्तम्यलौकिकी ।। अष्टम्यवाच्यताख्याति ८-रित्यष्टौ नामतः स्मृताः॥३॥ साम्राज्यादन्यथाख्याते-रेतास्वन्यनिरासतः॥ बहिरङ्गार्थतैकान्तं, निरस्यन्ति धियां बुधाः ॥ ४॥" विरोधान्नोभयैकात्म्यं, स्याद्वादन्यायविद्विषाम् ॥अवाच्यतैकान्तेप्युक्ति-नावाच्यामिति युज्यते॥८॥ ____ अन्तर्बहिर्जेयकान्तयोः सहाभ्युपगमो विरुद्धः स्याद्वादन्यायविद्विषामेव । तदवाच्यतायामुक्तिविरोधः पूर्ववत् । स्याद्वादाश्रयणे तु न कश्चिद्दोष इत्याहुः ॥ ८२ ॥ भावप्रमेयापेक्षायां, प्रमाणाभासनिहवः ॥ बहिः प्रमेयापेक्षायां, प्रमाणं तन्निभं च ते ॥ ८३॥
सर्वसंवित्तेः स्वसंवेदनस्य कथंचित् प्रमाणत्वोपपत्तेस्तदपेक्षायां सर्व प्रत्यक्ष, न कश्चित्प्रमाणाभासः, सौगतानामप्यत्राविवादात् , सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षमिति वचनात् । तनिर्विकल्पकमित्ययुक्तं स्वार्थव्यवसायात्मत्वमन्तरेण प्रत्यक्षत्वानुपपत्तेः समर्थनात् । तथानभ्युपगमेन्यत एव बुद्धेरनुमानं स्यात् । तच्चायुक्तं लिङ्गाभावात् । तत्रार्थज्ञानमलिङ्गं, तदविशेषेणासिद्धेः । स्वयमप्रत्यक्षं ज्ञानं ह्यर्थपरिच्छेदादनुमीयते इत्यर्थज्ञानं कर्मरूपमर्थस्य प्राकट्य तल्लिङ्गमिष्यते स हि बहिर्देशसंबद्धः प्रत्यक्षमनुभूयते, ज्ञाते त्वनुमानादवगच्छति बुद्धिमिति वचनात् । तच्चार्थप्राकट्यमधर्मो ज्ञानधर्मो वा ? प्रथमपक्षेऽर्थपरिच्छेदकज्ञानादविशेषेणेतरस्यासिद्धेर्न तल्लिङ्गम् ।
AAAAA5%
For Private And Personal Use Only