________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
र्मुक्ततत्स्मरणान्न तदिति न, तव मते पूर्वावगते रजते स्मृते केवलाधिकरणोपलब्धेरेव तदभावोपलम्भत्वात्, दोषस्य शुक्तौ रजतभेदग्रहप्रतिबन्धकत्वकल्पने च तत्तादात्म्यग्रहहेतुत्वकल्पनमेव ज्यायः । नापि तृतीयः, स्मर्यमाणे रजते रजतत्वस्य व्यावर्त्तकधर्मस्य मानाद् गृह्यमाणेऽप्यन्तत इदंत्वस्यैव तादृशस्य भानात् न च रजतत्वात्यन्ताभावरजतभेद गृहीतव्यावर्त्तकताकततद्धर्मग्रहाणामन्यतरत्वावच्छिन्नप्रतियोगिताकोऽखण्डाभावो रजतार्थिप्रवृत्तिहेतुरित्यपि वक्तुं शक्यम्, उदासीनप्रवेशाप्रवेशाभ्यां विनिगमनाविरहात्, रजतं स्मरतो रजतार्थिनः पाषाणत्वानुपलम्भे पाषाणेऽपि प्रवृत्तिप्रसङ्गाच्च । शुक्तिविषयकप्रवृत्तौ शुक्तिविषयकज्ञानत्वेनापि हेतुत्वाच्च, तत्र समानप्रकारकत्वनिवेशस्यैवौचित्यात्, अन्यथा महागौरवात्, किश्च रजत एव नेदं रजतमिति ग्रहे प्रवृत्यापत्तिः, तत्रान्यथाख्यातिभिया रजतभेदग्रहस्य परेण वक्तुमशक्यत्वात् न चाभावप्रतियोगित्वेनानुपस्थितं यदुपस्थितं रजतं तद्भेदाग्रहस्य प्रवतर्कत्वाददोष इत्यपि शक्यं वक्तुं, घटभिन्नं रजतं नेदमिति ज्ञानादपि प्रवृत्त्यापत्तेः तद्वृच्यभावप्रतियोगित्वेनानुपस्थितत्वं चान्यथाख्यातिभयाद्रजतेऽपीति न किञ्चिदेतत् । किश्च प्रवृत्तिरिच्छाद्वारा, सा च समानविषयज्ञानसाध्येति कथं नेच्छावन्मिथ्या, एतेन प्रकृतरजतज्ञानं स्मरणम्, अनाकलितरजतस्य प्रतिपत्तुरनुत्पद्यमानत्वादित्याद्यनुमानमपास्तम् । रजतगोचरेण समीहितसाधनवानुमानेन संस्कारेण रजतशब्दोल्लेखिप्रत्यक्षेण चानैकान्तिकत्वात्, प्रकृतरजतज्ञानं स्मरणं न भवति विशदावभासित्वात् यदित्थं तदित्थं यथा संप्रतिपन्नज्ञानमिति प्रत्यनुमानसद्भावाच्च । किञ्च भवतापि संवित्तिः स्वप्रकाशा स्वीक्रियत एव तत्रेयं रजतसंवित्तिस्तपस्विनी केन स्वभावेन प्रकाशतामिति विचारणीयं, यदि स्मृतिरूपेणेत्युच्यते हन्त तर्हि कः प्रमोषशब्दस्यार्थः । अथानुभवरूपेण प्रथते, तर्हि विपरीतख्यातिरेवेयं, स्मृतेरनुभ
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir