SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir | प्रवृत्तिर्न स्यात् , न चालौकिके लौकिकत्वज्ञानेन प्रवृत्युपपत्तिः, तस्यान्यथाख्यातित्वेन घट्टकुटीप्रभातापत्तेः । किञ्चालौकिकस्यापि रजतस्यासत्त्वेऽसत्रख्यात्यापत्तिः, सत्वे च नेदं रजतमिति बाधानुत्पत्तिः, न चालौकिके लौकिकत्वनिषेध एव बाधार्थः, नेदं रजतमित्यादौ रजतलौकिकत्वस्य निषेधप्रतियोगित्वेनाभानात् , सर्वत्र विधौ निषेधे च रजतपदस्य लौकिकरजतपरत्वे गौरवात् । किञ्च लौकिकरजतस्य प्रसक्तस्यैव प्रतिषेधाद्विपरीतख्यात्यापत्तिरिति न किश्चिदेतत् । एतेन मीमांसकवृद्धाभिमताऽलौकिकख्यातिः खण्डिता, एवं ख्यात्यन्तरखण्डनमपि द्रष्टव्यम् , भ्रान्तावन्यथाख्यातिपक्षस्यैव विचारक्षमत्वात् , तत्र तत्र प्राभाकरा विवेकाख्याति कल्पयन्ति, तदाहुस्ते, इदं रजतमित्यादिविपरीतप्रत्ययोत्पत्तौ न किमपि कारणं पश्यामः, इन्द्रियस्य शुक्तिशकल एव सन्निकृष्टत्वेन रजतज्ञानाजनकत्वात् , न च दोषवशादसन्निकृष्टस्यापीन्द्रियस्य रजतज्ञानजनकत्वं युक्तं, दुष्टकारणात् स्वकार्यानुत्पत्तावपि विपरीतकार्यानुत्पत्तेः, न हि कमलबीजं तैलकलुषितमपि गोधूमांकुरजननसमर्थ, तस्मादिद रजतमिति ग्रहणस्मरणरूपं बोधद्वयं सत्यमेव, इदमंशे इन्द्रियसन्निकर्षस्य ग्रहणकारणस्य रजतांशे च साधारणरूपदर्शनोबुद्धसंस्कारस्य स्मरणकारणस्य सन्चात् । न च तदंशानुल्लेखान्नेदं स्मरणमिति शङ्कनीयं, प्रमुष्टतत्ताकानामपि बहूनां पदपदार्थस्मरणानामुपलम्भात्, अत एव रजतस्य नातीतत्वावभासः। बाघकप्रत्ययश्चेदमन्यद्रजतमन्यदिति विवेकमेव प्रकाशयति, न तु रजतज्ञानस्यासत्यत्वं, स्वमे चेदं रजतमित्यादौ स्मरणत्वाग्रह एव विवेकाग्रहः, न त्वनुभवस्मरणयोस्तत्त्वाग्रहः, तदुभयाभावात् , सहनदर्शनं चिनापि तदा स्मृतिः, कारणान्तरात् , आरोपे सतीत्यादिन्यायात , एवं चन्द्रद्वयवेदने दोषाद् द्विधा कृतया नवनवृत्या चन्द्रैकत्वाग्रहणं च, तिक्ता शर्करेत्यादौ च पित्तद्रव्यगततिक्तग्रहशर्कराग्रहयोर्भेदाग्रहाद्विवेकाख्यातिया For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy