________________
Shri Maharlain Aradhana Kendra
www.kobatirth.org
Acharya Shet Kailassagarsuri Gyanmandie
4
कायाः पञ्चेन्द्रियविज्ञानस्कन्धान पतासामेकक्षणवृत्तिसंवित्तीनाम्मच तासु स्वलक्ष
इत्याशङ्कायामाहोत्पत्तिनियम एव वभ्रमप्रतिबन्धका निवर्ततेत्याय
%
BHRESS
लम्बनं विषयो येषां ते तथा, पञ्चविज्ञानकायाः पञ्चेन्द्रियविज्ञानस्कन्धाः, परेषां वाद्यार्थवादिनाम् । नन्वेकक्षणवतिसंवितीनामेकदैवोत्पत्तावपि कथमेकदैवोपलम्भ इत्याशङ्कायामाह-'तासामिति' तासामेकक्षणवृत्तिसंवित्तीनाम् , तथोत्पत्तेरेष सहोत्पत्तेरेव, संवेदनत्वात् संवेदनस्वरूपत्वात् , तथा च सहोत्पत्तिनियम एव स्वरूपतः सहोपलम्भनियमो न च तासु स्वलक्ष | गैकत्वमिति व्यभिचारः स्पष्ट इत्यर्थः । सम्भव इति एकत्वोपलम्भस्य द्वित्वभ्रमप्रतिबन्धकत्वादिति भावः । अर्थस्वभावानवबोधादिति अन्यापोहमात्रैकत्वसिद्धावपि संविदोऽर्थाकारत्वासिद्धेः, तथा चार्थसंशयस्ततो न निवर्त्ततेत्यायातमान्ध्यं जगत इति भावः । संघृश्याऽर्थबोधः स्यादित्याशक्याह-किश्चेत्यादिना, एकार्थसंगतदृष्टय इत्यनेनार्थोपलम्मे तद्विषयपरशानो| पलम्भस्य, परचित्तविदो वेत्यनेन च ज्ञानोपलम्मेऽर्थोपलम्भस्य व्यभिचारप्रदर्शनानियमखण्डनं कृतं, दृश्यते ह्ययं व्यवहार एनमर्थ जानामि न त्वेतद्विषयां परवुद्धिं, राजश्चित्तं सन्तुष्टं जानामि न तु तद्विषयं सन्तोषकारणमिति सूक्तमेतत् , अप्रयोजकतयाऽपि त्वदुक्तो हेतुः साभ्यासाधक इत्याह-किश्चेत्यादिना, संविदानो वेत्यत्र “वयः शक्तिशील" इति सूत्रविहितः शानप्रत्ययो द्रष्टव्यः, तेन न सकर्मकस्य संपूर्वकविद्धातोरात्मनेपदप्रत्ययस्यानुपपत्तिदोष उद्भावनीयः ॥ ८॥ बहिरणार्थतेकान्ते, प्रमाणाभासनिहवात्॥सर्वेषां कार्यसिद्धिः स्या-द्विरुद्धार्थाभिधायिनाम् ॥१॥
यत्किचिचेतस्तत्सर्व साक्षात्परम्परया वा बहिरर्थप्रतिबद्धम् । यथाग्निप्रत्यक्षतरवेदनम् । स्वप्नदर्शनमपि चेतः, तथा विषयाकारनिर्भासात् । साथ्यदृष्टान्तौ पूर्ववद् । विवादापन्नं विज्ञानं साक्षात्परम्परया वा बहिरर्थप्रतिबद्धं, विषयाकारनिर्भासात् । यथामिप्रत्यक्षेत्तरघेवनम् । तथा स्वप्रदर्शनमपि विषयाकारनिर्भासम् । तत्तथा । इति बहिरणार्थतैकान्तः, सर्ववेदनानां बहिर्विषयत्वाभि
For Private And Personal Use Only