________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्त्री विवरणम्।।
परिच्छेदः षष्ठः ॥
॥३०७॥
-%ARLALA-KARANCHAR
पत्तुं प्रतिपादयितुं वा शक्यं कथंचित्पौरुषेयत्वं, न तु सर्वथाऽपौरुषेयत्वं, तस्य युक्तियुक्तत्वाभावात् तयुक्तीनां तदाभासत्वसमर्थनात् । तत्रापौरुषेयत्वेपि वा वेदे यदेव युक्तियुक्तं तदेव प्रतिपत्तुं प्रतिपादयितुं वा शक्यं वचनमग्निर्हिमस्य भेषजं द्वादश मासाः संवत्सर इत्यादिवत् । नाग्निहोत्रादिवाक्यसाधनं, तस्य युक्तियुक्तत्वविरोधात् । सिद्धे पुनराप्तवचनत्वे यथा हेतुवादस्तथाज्ञावादोपि प्रमाणं. तदाप्तवचनत्वाविरोधात् । ननु चापौरुषेयत्ववदाप्तशासनमप्यशक्यव्यवस्थ, तस्यैव ज्ञातुमशक्तः, सरागस्यापि वीतरागवच्चेष्टोपलम्भादयमाप्त इति प्रतिपत्त्युपायासत्त्वात् । तस्य शासनमिति व्यवस्थापयितुमशक्तरित्यपरे । उक्तमत्र सर्वथैकान्तवादानां स्याद्वादप्रतिहतत्वादिति । युक्तिशास्त्राविरोधिवाक्त्वाद्विनिर्दोषोयमिति शक्यं निर्णेतुं, दोषवानयमिति च, दृष्टेष्टविरोधवचनत्वात् । तत्रानिश्चितवचनविशेषस्य कस्यचिद्वीतरागत्वेतराभ्यां संदेहेपि निश्चितवचनविशेषस्य शक्यमाप्तत्वं व्यवस्थापयितुम् । तत्राप्तिः साक्षात्करणादिगुणः 'सूक्ष्मान्तरितदूरार्थाः कस्यचित्प्रत्यक्षा' इत्यादिना साधितः । संप्रदायाविच्छेदो वा । सर्वज्ञादागमस्तदर्थानुष्ठानात् सर्वज्ञ इति सुनिश्चितासंभवद्वाधकप्रमाणत्वात्सिद्धः प्रवचनार्थस्य, अन्यथान्धपरम्परया प्रतिपत्तेः। न ह्यन्धेनाकृष्यमाणोन्धः स्वेष्टं मार्गमास्कन्दति नाम । न चैवं संप्रदायाविच्छेदे परस्पराश्रयणं, कारकपक्षे बीजाकुरादिवदनादित्वात्तस्यानवतारात् । ज्ञापकपक्षेपि परस्मात् स्वतःसिद्धात्, पूर्वस्य ज्ञप्तेनेंतरेतराश्रयणं, प्रसिद्धनाप्रसिद्धस्य साधनात् । तदेवं स्यात्सर्व हेतुतः सिद्ध करणाप्तवचनानपेक्षणात् , स्यादागमात्सिद्धमक्षलिङ्गानपेक्षणात् । स्यादुभयतः सिद्धं, क्रमाप्तिद्वयात् । स्यादवक्तव्यं, सहार्पितद्वयात् । शेषभङ्गत्रयं च पूर्ववत् । इति सप्तभङ्गीप्रक्रिया योजनीया ॥७८॥
नैकान्ताद्धेतुवादः प्रभवति सकलं तत्त्वमुन्नेतुमेक-स्तद्वनाहेतुवादःप्रवद(मव)ति विहिताशेषशङ्काकलापः। इत्यार्याचार्यवर्या विदधति निपुणं स्वामिनस्तत्त्वसिद्ध्यै स्याद्वादोत्तुङ्गसौधे स्थितिममलधियां प्रस्फुटोपायतत्त्वे ॥१॥
॥३०७॥
For Private And Personal Use Only