________________
Shri Mahavir Jain Aradhana Kendra
www.kcbabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CREASOKHARSHAN
इत्यभिहितम् । तद्वत्सकलधर्मधर्मिभूतानामर्थानां ' (१) स्यादापेक्षिकी सिद्धिः, तथा व्यवहारात् । (२) स्यादनापेक्षिकी पूर्वप्रसिद्धस्वरूपत्वात् । (३) स्यादुभयी क्रमाप्तिद्वयात् । (४) स्यादवक्तव्या, सहार्पितद्वयात् । (५) स्यादापेक्षिकी चावक्तव्या च, तथा निश्चयेन सहार्पितद्वयात् । (६) स्यादनापेक्षिकी चावक्तव्या च, पूर्वसिद्धत्वसहार्पितद्वयात् । (७) स्यादुभयी चावक्तव्या च, क्रमाक्रमार्पितोभयात् ।' इति सप्तभङ्गीप्रक्रियां योजयेत्रयविशेषवशादविरुद्धां पूर्ववत् ॥ ७६ ॥
अपेक्षैकान्तादिप्रबलगरलोद्रेकदलिनी, प्रबुद्धानेकान्तामृतरसनिषेकानवरतम् ॥ प्रवृत्ता वागेषा सकलविकलादेशवशतः, समन्ताद्भद्रं वो दिशतु मुनिपस्याऽमलमतेः॥१॥
॥ इत्याप्तमीमांसालकृतौ पञ्चमः परिच्छेदः॥ 'धर्मेत्यादि' धर्मधर्मिणोर्न विना भावो यस्येति व्युत्पत्याऽविनाभावो व्यवहारोऽन्योन्यवीक्षयाऽन्योन्यापेक्षया, सिद्ध्यति । नतु स्वरूपं, हि यतः, एतत् स्वरूपं, कारकज्ञापकाङ्गवत् कर्तृकर्मबोध्यबोधकवत् स्वत एव सिद्धं, तथा च धर्मधादेः स्वरूपतोनपेक्षत्वं व्यवहारतश्च सापेक्षत्वमित्यनैकान्त एव विजयत इति कारिकास पार्थः । तद्वत् सकलेत्यादि' यद्यपि केचिद्भावाः प्रतिनियतव्यञ्जकव्यङ्गयाः केचिच्च स्वतः सिद्धा इत्येवं विषयविभागेन-सापेक्षानपेक्षभावोऽन्यत्र शरावक'रगन्धन्यायेन पूर्वाचार्यैर्व्यवस्थापितः, तथापि स प्रातिस्विकरूपापेक्षया, धर्मधर्मिभावादिना तु सर्वत्र तद्व्याप्तिरेव सिद्धयतीत्येतत्तात्पर्यम् । अथ व्यवहारस्य सापेक्षत्वेऽर्थस्य कुत आपेक्षिकत्वमिति चेत् , व्यवह्रियमाणस्वरूपेण तस्यापि तदविरोधात् , अत एव अभावो न स प्रतियोगिकः, किन्तु तद्व्यवहार एवेति मीमांसकमतमपास्तम् । अभावव्यवहारे प्रतियोगिज्ञानज
For Private And Personal Use Only