SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ Shri Maharlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandi नियतबुद्धिविषयत्वस्य हेतोर्विरुद्धत्वं प्रतिपादितं, तस्य कथंचिदापेक्षिकत्वेन व्याप्तत्वात् प्रत्यक्षबुद्धिप्रतिभासित्ववत्। ततो नैतावेकान्तौ घटेते, वस्तुव्यवस्थानाभावानुषङ्गात् ॥७३॥ ॥ अथेदं पञ्चमपरिच्छेदतात्पर्यविवरणम् ॥ सहेलं खेलन्तं शिशुषु बहुवेलं धृतजय-स्पृहेलं वेताले तनुविजितताले प्रददतम् ॥ पविप्रायां मुष्टिं जनितजनतुष्टिं स्वहृदये, महावीरं धीरं गुणगणगभीरं प्रणिदधे ॥१॥ अहीन्द्रः पाताले स्वफणतनुसङ्कोचमकरोद, ययुर्दिग्नागास्ते क्वचन गिरयः पेतुरभितः ॥ यदः सङ्ग्रहाचलति सुरशैले परमिला, स्थिता यन्माहात्म्यात्तमिह जिनवीरं प्रणिदधे ॥२॥ पञ्चमे सापेक्षत्वानपेक्षत्वस्याद्वादसिद्ध्यर्थमुपक्रमः । अपेक्षाबुद्धाविति व्यावर्त्तकव्यावय॑त्वाद्यपेक्षाजनितविकल्पबुद्धावित्यर्थः । यद्यापेक्षिकसिद्धिः स्यादिति सर्वत्रेति शेषः । नीलस्वलक्षणं तत्संवेदनं चेति, तयोरपि सर्वकुक्षिप्रविष्टत्वादिति भावः । तयोरप्यापेक्षिकत्वादिति आपेक्षिकत्वप्रसङ्गादित्यर्थः । नहि नीलमित्यादि, यद्यप्येवमेकस्योत्पत्तावन्यस्य च सप्तावपेक्षेति नैकरूपेणापेक्षाविषयत्वं द्वयोः, तथापि निश्चयापेक्षया तथात्वं भावनीयं, प्रसङ्गस्य वस्तुस्थित्यनपेक्षत्वात् । परस्परापेक्षैकान्तविरोधादिति, यद्यप्येतद्पणं न सौगतं प्रति सङ्गच्छते, सर्वत्र तेन परस्परापेक्षकान्तानभ्युपगमात् , सङ्कलनात्मकविकल्पज्ञान एव तेन तत्स्वीकारात् , तथापि धर्मधर्मिभावादेः स्वरूपद्वयानतिरिक्तत्वात्तदुभयग्राहिदर्शनेऽपि परस्परापेक्षत्वमापाद्य तं प्रत्येवेदमिति बहवः । सविकल्पग्राह्यमेव सर्वमिति शब्दनयविदं प्रतीति तु सम्मत्यनुसारिणः । भाष्ये तदिमाविति । इमो दूरासन्नभावी, इतरेतराश्रयदोषानुषङ्गादिति दूप्रतिपत्तावासन्नस्य प्रतिपत्तिस्त For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy