________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भिलाप्यत्वात् । अनमि लाप्यतैकान्तस्याप्यनभिलाप्यत्वे कुतः परप्रतिपादनम् १ तद्वचनाच्चेत्कथमनभिलाप्यतैकान्तः ? परमार्थतो न कचिद्वचनात्प्रतिपाद्यते इति चेत्, स्वयमवाच्यताप्रतिपत्तिः कथम् ? वस्तुनि वाच्यतानुपलब्धेश्चेत्, सा यदि दृश्यानुपलब्धिस्तदा सिद्धा कचिद्वाच्यता । नो चेन्नास्ति तदभावनिश्चयोऽतिप्रसङ्गात् । विकल्पप्रतिभासिन्यन्यापोहे प्रतिपन्नाया एव वाच्यतायाः स्वलक्षणे प्रतिषेधाददोष इति चेत्, न, वस्तुवाच्यतायाः प्रतिषेधायोगात्, तदन्यापोहमात्रवाच्यताया एव प्रतिषेधात् । न चान्यापोहवाच्यतैव वस्तुवाच्यता तत्प्रतिषेधाविरोधात् । निरस्तप्रायश्चायमवाच्यतैकान्त इत्यलं प्रसङ्गेन । स्याद्वादाभ्युपगमे तु न दोषः, कथंचित् तथाभावोपलब्धेः । सर्वं हि वस्तु व्यञ्जनपर्यायात्मकतया वाच्यमर्थ पर्यायात्मकत्वेनावाच्यमिति स्याद्वादिभिर्व्यवस्थाप्यते,
अन्यथा प्रमाणाभावात् ॥ ७० ॥
व्यञ्जन पर्यायात्मकतया वाच्यमिति अभिलाप्यपर्यायात्मना वाच्यमित्यर्थः, अर्थपर्यायात्मकत्वेनावाच्यमिति घटादेरपि षड्गुणहानिवृद्धिरूपागुरुलघुपर्यायात्मनाऽवाच्यत्वव्यवस्थितिरित्यर्थः । एवं गौर्गोत्वेन गोपदशक्यो न पशुत्वेने त्यादिप्रतीत्यापि वाच्यावाच्यत्वानेकान्तो भावनीयः ॥ ७० ॥ कार्यकारणादीनामनन्यतैकान्तदूषणेन तदनेकान्तस्य प्रक्रान्तत्वात् द्रव्यपर्याययोस्तदुपसंहारे उपक्रमोपसंहारविरोधः स्यादित्यालोच्य व्याचष्टे
तदेवमवयवावयव्यादीनामन्यत्वाद्येकान्तं निराकृत्याधुना तदनेकान्तं सामर्थ्यंसिद्धमपि दुराशङ्कापनोदार्थं दृढतरं निश्चिचीषवः
सूरयः प्राहुः ।
द्रव्यपर्याययोरैक्यं तयोरव्यतिरेकतः । परिणामविशेषाश्च शक्तिमच्छक्तिभावतः ॥ ७१ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir