SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir बष्टसहस्री विवरणम् ॥ परिच्छेदः चतुर्थः॥ ॥२९ ॥ रूपा सत्ताऽस्तु असत्तावत् । तथा समवायोपि । न चैवमेकत्वविरोधः सत्तायाः संभावनीयो, विशेषतोनेकत्वेपि सामान्यार्पणादेकत्वाविरोधात्, सद्विशेषेष्वेव सत्सामान्यप्रतीतेरसद्विशेषेष्वसत्सामान्यप्रतीतिवत् । समवायविशेषेषु समवायसामान्यप्रतीतिश्च न विरुद्धा, संयोगविशेषेषु तत्सामान्यप्रतीतिवत् । इति सर्व सामान्यविशेषात्मकं सिद्धम् । न च सामान्यस्य विशेषस्य चैकशः सामान्यविशेषात्मकत्वेऽनवस्थानमन्यथा सर्व सामान्यविशेषात्मकमिति प्रतिज्ञा हीयते, तयोरन्योन्यात्मकत्वसिद्धेर्द्रव्यार्थार्पणया परस्परतो भेदाच्च पर्यायार्पणवा सापेक्षत्वमात्रस्य तयोरिष्टेः । सामान्यस्य हि स्वविशेषादपोद्धृतस्य विशेषान्तरात्मकत्वे विशेषस्य च स्वसामान्यानिर्धारितस्य सामान्यान्तरात्मकत्वेऽनवस्था स्यान्नान्यथा । भिन्नस्य च सामान्यस्य विशेषाद्विशेषस्य च सामान्यादितरनिरपेक्षत्वे प्रतिज्ञाहानिः प्रसज्यते, न पुनरितरथा । इति स्याद्बादिनां सर्व सुस्थम् । वैशेषिकाणां तु तदुभयप्रकारानभ्युपगमादुक्तदोषानुषत एव । ॥ ६६ ॥ तेषां हि__ येषामिति येषां वैशेषिकाणां सामान्यस्य समवायसम्बन्धेन सम्बद्धत्वात्परमार्थतोऽनुपचारादन्वितत्वं समवायस्य तु समवायान्तरामावादुपचारात्, तथा च समवायिषु तथा सामान्यवदप्रतिबद्धत्वादसम्बद्धत्वमिति योजना, नान्वितो यातीति, अनु पश्चात् , इतः सकाशान यातीत्यर्थः। भावविशेषणत्वाद्भावविनिर्मुक्तबुद्ध्यविषयत्वात् , भावपरतत्रत्वमुक्तभावविशेषणत्वमेव, एवमग्रेऽभावपरवंत्रत्वमपि व्याख्येयम् । सत्तैकत्वेऽसत्तैकत्वमपि स्यादित्युक्तं तत्रासत्तैकत्वे बाधकमाशङ्कते-नन्वभावस्यैकत्व इत्यादिना, एवं वादिनः सत्तैकत्वेऽपि बाधकं तुल्यमित्याह-तस्यापीत्यादिना, प्रत्ययविशेषात् प्रागनासीदित्यादिप्रतीतिभेदात्, तद्व्यवस्थायां प्रागभावादिभेदव्यवस्थायां, तत एव प्रत्ययविशेषादेव, |॥२९॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy