________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
अष्टसहस्त्री विवरणम् ।
परिच्छेदः | चतुर्थः॥
॥२८९॥
'आश्रयेत्यादि' उत्तरार्द्ध इतिस्तथापीत्यर्थे, तथा च तथापि स सम्बन्धः समवायाख्यः समवायिभिरयुक्तो- ऽसम्बद्ध इति न युक्तो न घटमानक इति, समवायस्यैवाभावाहुरे समवायिनां स्वातन्त्र्यपारतन्त्र्यचर्चेति भावः । एवं च स्यान्मतमिति शङ्काया अनुपमर्दानासंलग्नकत्वमिति द्रष्टव्यम् । स्वरूपलाभस्यैव स्वरूपसत्तात्मकत्वादिति, तदिदमाहुः, न हि देशकालयोः सत्त्वं विहायान्यत् सत्त्वम् , अभावेऽपि स्वकालदेशकृतं सत्त्वमभ्युपगम्यत एव, इदानीं भूतले घटाभावोऽस्तीति प्रतीतेः, अभावव्यावृत्तसद्व्यवहारस्तु भावत्वनिवन्धन एवेति, अतिप्रसङ्गादिति परम्परासम्बन्धेन सामान्यादाविवाभावेऽपि सद्व्यवहारप्रसङ्गादित्यर्थः । स्वरूपसत्तयैव सद्व्यवहारोपपत्तौ चालं पदार्थान्तरपरिकल्पनयेति रहस्यम् ॥६४॥
केवलस्य समवायस्य सत्तासामान्यवन्नित्यत्वादुत्पाद इति ज्ञानाभिधानाहेतुत्वादिति मतं तदासामान्यं समवायश्चाप्येकैकत्र समाप्तितः । अन्तरेणाश्रयं न स्यान्नाशोत्पादिषु को विधिः ॥६५॥
येषां परमार्थतः सामान्यस्याश्रितत्वमुपचारात्समवायस्य समवायिषु तत्राप्रतिबद्धत्वादसंबद्धत्वं, तदुपचारनिमित्तं तु समवायिषु सत्सु तस्येहेदमिति प्रत्ययकारित्वमिति मतं तेषां प्रत्येकं परिसमाप्तेराश्रयाभावे सामान्यसमवाययोरसंभवादुत्पत्तिविपत्तिमत्सु कथं वृत्तिः । कचिदेकत्र नित्यात्मन्याश्रये सर्वात्मना वृत्तं सामान्य समवायश्च तावत् । 'उत्पित्सुप्रदेशे प्राग्नासीदनाश्रितत्वप्रसंगात् , नान्यतो याति सर्वात्मना पूर्वाधारापरित्यागादन्यथा तदभावप्रसङ्गात्, नाप्येकदेशेन, सांशत्वाभावात् , स्वयमेव पश्चाद्भवति स्वप्रत्ययकारित्वात् , आश्रयविनाशे च न नश्यति नित्यत्वात् , प्रत्येक परिसमाप्तं च' इति व्याहतमेतत् । स्यान्मतं ' सत्तासामान्य तावद्रव्यादिषु प्रत्येकं परिसमाप्त, सत्प्रत्ययाविशेषात् । सर्वत्रास्ति च, सत्प्रत्ययाविच्छेदात् । समवायोऽपि सर्वत्र विद्यते, समवायिनां शश्वदविच्छे
॥२८९॥
For Private And Personal Use Only